बलरामपुरम् : राज्योत्सवेऽपि तिरपालद्वारा आवृत्ता अटलस्य प्रतिमा
बलरामपुरम्, 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य पंचविंशतितमि स्थापना-दिवसे यदा सर्वत्र प्रदेशे विकासस्य साधनानां च उत्सवः प्रचलति, तदा अपि बलरामपुरजिले भारतरत्नपूर्वप्रधानमन्त्री स्वर्गीयः अटलविहारीवाजपेयी इत्यस्य प्रतिमा अद्यापि तिरपालेन आच्छन्न
राज्योत्सव में भी तिरपाल में ढकी रही अटल जी की प्रतिमा


बलरामपुरम्, 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य पंचविंशतितमि स्थापना-दिवसे यदा सर्वत्र प्रदेशे विकासस्य साधनानां च उत्सवः प्रचलति, तदा अपि बलरामपुरजिले भारतरत्नपूर्वप्रधानमन्त्री स्वर्गीयः अटलविहारीवाजपेयी इत्यस्य प्रतिमा अद्यापि तिरपालेन आच्छन्ना वर्तते। षोडशलक्ष-रूप्यकाणां व्यये निर्मिता सा प्रतिमा राज्योत्सवस्य मुख्यसमारोहेऽपि अनावरणस्य प्रतीक्षां कुर्वन्ती तिष्ठति। शहीदपार्कस्य पुरतः निर्मिते अटलचौके प्रतिमा च परिसरश्च प्रायः सम्पूर्णतया सज्जौ स्तः। प्रकाशव्यवस्था पथमार्गः सौन्दर्यविन्यासश्च सम्यक् सम्पन्नः। तथापि लोकार्पणाभावेन एषः प्रदेशः “सज्जः सन् अपि अपूर्णः” इव दृश्यते। नागरिकाः वदन्ति—एषा अवस्था जिलस्य प्रशासनिक-उदासीनतायाः प्रतीकं वर्तते इति। स्थानीयजनाः उक्तवन्तः यत् ठेकेदारः कार्यं समये एव समाप्तवान्, परन्तु विभागीयपक्षेऽभवद् अनुद्यमः, अतः राज्योत्सवात् पूर्वं परिसरस्य उद्घाटनं न जातम्। नागरिकाः मन्यन्ते—यदि समये एव एतत् जनसामान्याय उद्घाटितं स्यात्, तर्हि एषः प्रदेशः बलरामपुरस्य गौरवचिह्नं भूत्वा प्रतिष्ठितः स्यात्। नगरपालिकापरिषद्-बलरामपुरस्य सीएमओ प्रणवराय इत्यनेन उक्तं यत् कृषिमन्त्री रामविचारनेताममहाभागस्य कराभ्यां चतुर्दशे नवम्बरमासे अटलपरिसरस्य विधिवद् लोकार्पणं भविष्यति इति। अधुना तु अटलजीस्य प्रतिमा तिरपालेन आवृता, यथा प्रशासनिक-तिथेः निर्णयस्य प्रतीक्षां कुर्वती इव।

---------------

हिन्दुस्थान समाचार