Enter your Email Address to subscribe to our newsletters

रायपुरम् 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य स्थापना-दिनस्य पंचविंशतिवर्षपूरणस्य अवसरं निमित्तीकृत्य राज्यसरकारया आयोज्यमानस्य रजतवर्षोत्सवस्य अन्तर्गतं नवरायपुरनगरे पंचदिवसीय-राज्योत्सवस्य आयोजनं कृतम्।
कार्यक्रमस्य तृतीये दिने सोमवासरे रात्रेः उत्तरार्धे संगीत-नृत्य-लोकसंस्कृतेः अद्भुतः संगमः द्रष्टुं लब्धः। बॉलीवुड्-ख्यातनाम-पार्श्वगायिका भूमि-त्रिवेदी इत्यनेन स्वया मनोहरया कण्ठध्वन्या दर्शकान् नृत्यं प्रति प्रेरितवन्त्या। सा “ससुराल गेंदा फूल”, “सैय्यारा”, “राम चाहे लीला”, “झुमका गिरा रे”, “जय जय शिवशंकर कांटा लगे न कंकड”, “होली खेले रघुवीरा”, “रंग बरसे”, “ये देश है वीर जवानों का”, “डम डम ढोल बाजे”, “उड़ी उड़ी जाएं” इत्यादीनि लोकप्रियगीतानि नूतनेन रूपेण प्रस्तुत्य वातावरणं हर्षोत्साहाभ्यां पूर्णं कृतवती। हिन्दी-पञ्जाबी-राजस्थानी-भाषासहितानां गीतानां संगतेन छत्तीसगढ़्य-लोकसंगीतस्य तन्तुं संयोज्य सा युवानां हृदये संगीतचेतनां जागरयामास। दर्शकाणां तालप्रणादेन नृत्येन च सम्पूर्णः प्राङ्गणः निनादितः।
छत्तीसगढ़स्य गौरवगाथां प्रवर्धयन्ती पद्मश्री ऊषा-बारले इत्यनेन स्वस्य तानपुरध्वनिना अभिव्यक्तिपूर्णैः मुद्राभिः च महाभारतस्य वीरतां जीवयामास। तस्याः प्रस्तुति श्रोतॄन् भावविह्वलान् अकरोत्, ये चिरकालं मंचात् दृष्टिं नापास्यन्। सा च महाभारतस्य चीरहरणाख्यानं मार्मिकरूपेण हृदयस्पर्शिनं च प्रकारेण प्रस्तुतवती।
अनन्तरं सूफी-पार्श्वगायकः राकेशशर्मा स्वसहकलाकारैः सह “दमादम मस्त कलंदर”, “मौला मेरे मौला”, “चोला माटी के राम” इत्यादिभिः गीतैः श्रोतॄन् आध्यात्मिक-सफरे नीतवान्। तस्याः सहगायिका निशाशर्मा अन्ये च कलाकाराः स्वस्वरतालाभ्यां तस्मिन् सूफीयाने भावे अधिकं माधुर्यं संजग्मुः।
प्रदेशीयलोकमञ्चस्य कलाकारः कुलेश्वरताम्रकारः “नाचा”नाम्ना नाट्यरूपेण छत्तीसगढ़मृत्तिकायां निहितां लोकसंस्कृतिं मंचे साकारां प्रदर्शितवान्। तेन परम्परा-ऊर्जा-रचनात्मकतायाः अद्भुतं सम्मिलनं सृष्टम्, येन दर्शकाः दीर्घकालं पर्यन्तं ताल्याः घोषैः सह आनन्देन स्पन्दमानाः अभवन्।
हिन्दुस्थान समाचार