विधानसभायाः विशेषसत्रम् — विपक्षदलैः स्वास्थ्यविभागे शिक्षाविभागे च श्वेतपत्रस्य प्रकाशनस्य अभियाचना कृता।
देहरादूनम्, 4 नवंबरमासः (हि.स.)। उत्तराखण्ड–विधानसभायाः विशेष–सत्रस्य द्वितीयदिनस्य आरम्भः उत्साहेन अभवत्। विपक्षनेता सोमवासरे रात्रौ चौखुटिया–प्रदेशे जनानां गिरफ्तारीं लाठीचार्जं च आरोपितवान्। तेन सामुदायिकस्वास्थ्यकेन्द्रस्य चौखुटियाप्रदेशस्य अव्
विधानसभा में चर्चा करते विधायक


देहरादूनम्, 4 नवंबरमासः (हि.स.)। उत्तराखण्ड–विधानसभायाः विशेष–सत्रस्य द्वितीयदिनस्य आरम्भः उत्साहेन अभवत्। विपक्षनेता सोमवासरे रात्रौ चौखुटिया–प्रदेशे जनानां गिरफ्तारीं लाठीचार्जं च आरोपितवान्। तेन सामुदायिकस्वास्थ्यकेन्द्रस्य चौखुटियाप्रदेशस्य अव्यवस्था, वैद्य–अभावः, उपकरणानां च न्यूनता इत्येतानि विषयानि प्रस्तुतानि। अस्य प्रत्युत्तररूपेण संसदीयकार्यमन्त्री सुबोध–उनियाल उक्तवान् यत् सामुदायिकस्वास्थ्यकेन्द्रं चौखुटिया उपजिलाचिकित्सालयपदं प्राप्तम् अस्ति, तस्य शासनादेशः अपि निर्गतः। तत्र द्वौ वैद्यौ नियोजितौ इति च उक्तम्।

एतस्मिन् प्रतिवाक्यम् उपस्थाप्य चौखुटियाविधायकः मदनसिंहबिष्ट उक्तवान् यत् एतत् असत्यस्य एव पुलिन्दः अस्ति। सः आग्रहं कृतवान् यत् सरकारः स्वास्थ्ये शिक्षायां च श्वेत–पत्रं प्रकाशितुं यत्नं करोतु। बद्रीनाथविधायकः लखपतबुटोला अपि उक्तवान् यत् नवम्बर–नवमे दिनाङ्के सरकारः गैरसैंणं स्थायी–राजधानीरूपेण घोषयतु, राज्यस्य परिसीमनं च द्विसहस्रैकविंशतिवर्षस्य आधारतः क्रियताम्।

हिन्दुस्थान समाचार / Dheeraj Maithani