Enter your Email Address to subscribe to our newsletters

४ नवम्बरमासः (हि.स.) अल्मोड़ाजनपदे उत्तराखण्डराज्यस्य स्थापनायाः पञ्चविंशतिवर्षपूर्तेः निमित्तं रजतजयन्तीउत्सवस्य अवसरं प्रति मंगलवासरे प्रसिद्धे कातरमालास्थिते सूर्यमन्दिरे सामूहिकयोगाभ्यासकार्यक्रमः भव्यरूपेण आयोजितः आसीत्। अस्मिन् योगायामे केन्द्रीयसड़कपरिवहनराज्यमन्त्री अजयतमता अपि सहभागित्वं कृतवान्। योगप्रशिक्षकानां नेतृत्वे विविधयोगासनानां अभ्यासः सम्पन्नः। ततः परं योगाभ्यासिनः सर्वे योगप्रतिज्ञां दत्तवन्तः यत् ते नित्यं योगाभ्यासं करिष्यन्ति, स्वास्थ्यरक्षणाय जीवनस्य अनिवार्यभागं च करिष्यन्ति इति।
अस्मिन् अवसर एव केन्द्रीयराज्यमन्त्री अजयतमता महोदयः भाषमाणः उक्तवान् यत् — “योगः मानवजीवने स्वास्थ्यं, संतुलनं, सकारात्मकतां च जनयितुं समर्थः अस्ति। अयं योगः अस्माकं प्राचीनभारतीयसंस्कृतेः अनुपमः उपहारः अस्ति, येन सम्पूर्णं विश्वं स्वास्थ्यस्य नूतनं पथं प्राप्तवान्। प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन प्रयत्नेन योगः अद्य वैश्विकं आन्दोलनं जातः अस्ति।” सः सर्वेभ्यः आग्रहं कृतवान् — “योगं केवलं एकदिवसीयं उत्सवमिव न पश्यन्तु, किन्तु तं स्वजीवने नित्यं समाविशन्तु। प्रतिदिनं प्रातःकाले कतिपयानि निमेषानि योगाभ्यासाय योजयन्तु, तदा शरीरं स्वस्थं, मनः प्रसन्नं, विचाराः च सकारात्मकाः भविष्यन्ति।”
अस्मिन् कार्यक्रमे जिलादण्डाधिकारी अंशुलसिंह महोदया अपि उपस्थिताभूत्, तया योगाभ्यासः अपि कृतः। सा उक्तवती यत् — “अस्य आयोजनस्य परमं प्रयोजनं जनसामान्ये योगविषये जागरूकताया वृद्धिः करणीय इति।” तया सर्वान् नागरिकान् प्रति आह्वानं कृतम् — “नित्यं योगाभ्यासं कुर्वन्तु, तं दैनन्दिनजीवने अपि समावेशयन्तु।” सा योगस्य महत्त्वं विस्तारतः व्याख्यातवती।
कार्यक्रमस्य समाप्त्यनन्तरं केन्द्रीयराज्यमन्त्री अजयतमता तथा जिलादण्डाधिकारी अंशुलसिंह उभौ अपि मन्दिरपरिसरे वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य प्रति स्वभावनाः प्रकटयताम्। तौ जनसामान्यं प्रति अपि आह्वानं कृतवन्तौ यत् — “ते अपि पर्यावरणस्य रक्षणं कुर्वन्तु, स्वस्य प्राकृतिकविरासतां च सदा संरक्षयन्तु।”
अस्मिन् कार्यक्रमे मुख्यविकासाधिकारी रामजीशरणशर्मा, अपरजिलादण्डाधिकारी युक्तमिश्रः, उपजिलादण्डाधिकारी संजयकुमारः, जिलायुर्वेदिकाधिकारिणः डॉ शाहिद्, आईटीबीपी तथा एसएसबी बलस्य जवानः, विद्यालयीयबालकाः, स्थानीयनागरिकाः, स्वसहायतासमूहस्य महिलाः, आयुर्वेदिक-यूनानीविभागयोः अधिकारी-कर्मचारिणः च सपरिवारं उपस्थिताः आसन्।
एवं सः योगमहोत्सवः आल्मोडानगरस्य पर्वतीयशोभामध्ये दिव्यभावेन सम्पन्नः आसीत्।
हिन्दुस्थान समाचार