विशेष गहन पुनरीक्षण कार्यक्रम: -गृहंगृहंगत्वा सर्वेक्षणस्य कार्यम् अद्य शुभारब्धम्
चतुर्थनवंबरतः चतुर्थदिसंबर यावत् चलिष्यति गणना प्रपत्रं पूरयितुञ्चरणम्, एसआईआरप्रपत्रस्य पूर्तिः सरला जयपुरम्, 4 नवंबरमासः (हि.स.)।राज्यराजस्थानदेशे मङ्गलवासरादारभ्य “विशेषगहनपुनरीक्षणम्” इत्यस्य (एस्.आइ.आर्.) अन्तर्गतं गृहाद्गृहं प्रति सर्वेक्
विशेष गहन पुनरीक्षण कार्यक्रम


चतुर्थनवंबरतः चतुर्थदिसंबर यावत् चलिष्यति गणना प्रपत्रं पूरयितुञ्चरणम्, एसआईआरप्रपत्रस्य पूर्तिः सरला

जयपुरम्, 4 नवंबरमासः (हि.स.)।राज्यराजस्थानदेशे मङ्गलवासरादारभ्य “विशेषगहनपुनरीक्षणम्” इत्यस्य (एस्.आइ.आर्.) अन्तर्गतं गृहाद्गृहं प्रति सर्वेक्षणकार्यं आरब्धम्। राज्यस्य मुख्यनिर्वाचनाधिकारी नवीनमहाजननामकः अवदत् यत् चतुर्थात् नवम्बरमासात् चतुर्थं डिसम्बरमासं यावत् एषा अवधि अतीव महत्वपूर्णा अस्ति, यतः अस्मिन् काले सर्वे राज्यस्य बूथस्तराधिकारीणः (बी.एल्.ओ.) मतदातॄणां गृहाणि प्रति गत्वा ताभ्यां द्वे प्रतिलिप्यौ गणनापत्रस्य पूरयिष्यन्ति, यस्य एकं प्रति मतदातुः समीपे रसीदार्थं स्थाप्यते।

महाजनमहोदयः उक्तवान् यत् वर्षे २०२५ तस्य वर्तमानमतदातासूच्यां ५ कोट्यधिकः ४८ लक्ष ८४ सहस्र ८२७ मतदातारः सन्ति, यत्र २.८४ कोट्यः पुरुषाः, २.६५ कोट्यः महिलाः, ६८१ अन्ये मतदातारः च सन्ति। एतेषां विशेषगहनपुनरीक्षणकार्यक्रमस्य अन्तर्गतं बूथस्तराधिकारीभिः गणनापत्रं पूरयित्वा परीक्षणं करिष्यते। तेन उक्तं यत् भारतीयनिर्वाचनआयोगेन विशेषगहनपुनरीक्षणस्य गणनापत्रं सरलरूपेण विन्यस्तम्। अद्य तस्य एक एव पृष्ठः अस्ति, यस्मिन् मतदातुसम्बद्धानि विवरणानि—नाम, ईपिकसङ्ख्या, निवासस्थानं, वर्तमानमतदातासूच्याः भागसंख्या, क्रमाङ्कसङ्ख्या इत्यादीनि—पूर्वमेव पूरितानि सन्ति। मतदातुः छायाचित्रमपि तत्र मुद्रितं दृश्यते।

बी.एल्.ओ. अधिकारिणः गृहाद्गृहं गत्वा प्रतिमतदातृणां समीपे गणनापत्रं दास्यन्ति, पूरणे च साहाय्यं करिष्यन्ति। गणनापत्रे मतदात्रा जन्मतिथि, आधारसङ्ख्या (ऐच्छिकम्), पित्रोः अथवा अभिभावकस्य नाम ईपिकसङ्ख्या (ऐच्छिकम्), मातुः नाम ईपिकसङ्ख्या (ऐच्छिकम्), चलदूरवाणीसङ्ख्या च पूरयितव्या। तस्मिन् नवीनं वर्णयुक्तं पास्पोर्ट्स्थायिचित्रं अपि संस्थापनीयम्।

गणनापत्रे विगतएस्.आइ.आर्.मतदातासूच्याः विवरणानि अधिगत्यान्येषां मतदातॄणां सम्बन्धितसूचनाः पूरयितुं विधानं कृतम्। ये मतदातारः येषां नाम पूर्वसूच्यां नासीत् किन्तु तेषां माता, पिता, पितामहः, मातामहः इत्यादीनां नाम तत्र आसीत्, तेषां सम्बन्धविवरणं पूरयित्वा वंशावलिमेपिङ्गं (वंशावलीमानचित्रणं) करिष्यते।

मुख्यनिर्वाचनाधिकारी अवदत् यत् सर्वेषां राज्येषां मतदातासूच्यः भारतनिर्वाचनआयोगस्य जालपुटे https://voters.eci.gov.in/ अपलोड् कृताः सन्ति, एवं राजस्थाननिर्वाचनकार्यालयस्य जालपुटे https://election.rajasthan.gov.in/ अपि उपलब्धाः।

विगतसूच्यां यदि वर्तमानमतदातुः पितृपितामहादीनां नाम दृष्टं तर्हि सः सटीकसत्यापितपारिवारिकसम्बन्धेन वंशावलिमेपिङ्गं क्रियते, येन बहुषु प्रसङ्गेषु मतदातॄणां कागदपत्रसंग्रहणस्य आवश्यकता न भवति। राज्ये चत्वारिंशदधिकवयस्कमतदातॄणां संख्या प्रायः २.६१ कोटिः अस्ति, यस्य ८३ प्रतिशतस्य मॅपिङ्गं सम्पन्नम्। अपरं ४० वर्षात् अल्पवयस्कमतदातॄणां संख्या २.८८ कोटिः अस्ति, तेषां ५० प्रतिशतस्य कार्यं सम्पन्नम्। समग्रे ६५.३ प्रतिशतं मॅपिङ्गकार्यं बी.एल्.ओ. ऐप् उपरि सम्पन्नम्। गणनाचरणे एषा मॅपिङ्गं अधिकं भविष्यति।

बी.एल्.ओ. अधिकारीणः गृहाद्गृहं गत्वा आंशिकरूपेण पूरितं गणनापत्रं द्वे प्रतिलिप्यौ मतदातृभ्यः दास्यन्ति, पूरणे च सहायं करिष्यन्ति, ततः पूरितानि गणनापत्राणि संग्रह्य ई.सी.आइ.नेट् ऐप् इत्यस्मिन् अपलोड् करिष्यन्ति। मतदातारः अपि विगतसूच्याः आधारं कृत्वा आवश्यकसूचनाः दास्यन्ति।

सर्वे मतदातारः गणनापत्रस्य द्वे प्रतिलिप्यौ पूरयित्वा बी.एल्.ओ. अधिकारीभ्यः समर्पयन्तु, एकां प्रति रसीदार्थं स्वयमेव स्थापयन्तु। चतुर्थात् डिसम्बरमासात् पूर्वं गणनापत्रं समर्प्य मतदातासूच्यां नामावलोकनं सुनिश्चितं कर्तव्यम्। यदि ततः पश्चात् नामदर्शनं इच्छति, तर्हि फॉर्म्-६ नामकं पत्रं घोषणापत्रेण सह पूरयेत्।

महाजनमहोदयेन निर्वाचनविभागेन सर्वेषां बी.एल्.ओ. अधिकारीणां कृते परामर्शसूचना (एडवाइजरी) प्रकाशिताः, यत्र आदेशः अस्ति यत् कार्यसमये परिचयपत्रं धारयेत्, समयबद्धं कार्यनिष्पादनं करोतु, दैनिकप्रगत्याः अभिलेखनं कुर्यात्, मॅपिङ्गसहाय्यं दद्यात्, बूथस्तरएजेन्टैः सह समन्वयं स्थापयेत्, आवश्यकता आसीत् चेत् आईटीसहायकेभ्यः अथवा ई.आर्.ओ. इत्यस्मात् परामर्शं गृह्णीयात्।

महाजनः सर्वान् राजस्थानराज्यस्य मतदातॄन् प्रति आह्वानं कृतवान् यत् चतुर्थदिनाङ्के डिसम्बरमासे २०२५ वर्षे अन्ते यावत् स्वीयं गणनापत्रं नवीनफोटोविवरणैः सह बी.एल्.ओ. अधिकारीभ्यः समर्पयन्तु। शीघ्रमेव अस्य कृते ऑनलाइनव्यवस्था अपि प्रारभ्यते।

---------------

---------------

हिन्दुस्थान समाचार