बलरामपुरम् : कार्तिक पूर्णिमायां देव दीपावल्यां च आस्थायाः संमर्दः, कन्हर नद्याम् उत्पन्नः ड़ी श्रद्धालूनां संमर्दः
बलरामपुरम्, 5 नवंबरमासः (हि.स.)।कार्तिकपूर्णिमाया देवदीपावलिश्च पावनयोः अवसरयोः नगरे आस्था–भक्त्योः अद्भुतः संगमः दृश्यः अभवत्। प्रातःकाले एव सहस्रशः श्रद्धालवः कन्हरनदीतीरं प्रति स्नानार्थं समागतवन्तः। धार्मिकमान्यतानुसारं कार्तिकपूर्णिमादिने पव
राम मंदिर में पूजा करते श्रद्धालु


बलरामपुरम्, 5 नवंबरमासः (हि.स.)।कार्तिकपूर्णिमाया देवदीपावलिश्च पावनयोः अवसरयोः नगरे आस्था–भक्त्योः अद्भुतः संगमः दृश्यः अभवत्।

प्रातःकाले एव सहस्रशः श्रद्धालवः कन्हरनदीतीरं प्रति स्नानार्थं समागतवन्तः।

धार्मिकमान्यतानुसारं कार्तिकपूर्णिमादिने पवित्रनद्यां स्नानं कृत्वा भगवानं विष्णुं प्रति आराधनां कुर्वतः अक्षयपुण्यलाभः भवति।

नगरस्य प्रसिद्धराममन्दिरे पुरोहितः यशपालदुबे नामकः उक्तवान् यत् कार्तिकपूर्णिमायां गङ्गास्नानस्य विशेषं महत्त्वं विद्यते।

प्रातःकालस्य चतुर्वादने एव नगरवासी स्नानं कृत्वा राममन्दिरं प्रति आगतवन्तः, यत्र ते एकादशवारं शताष्टवारं वा मन्दिरपरिक्रमा कृतवन्तः।

ततः परं श्रद्धालवः भगवानं सत्यानारायणं प्रति कथाश्रवणं कृत्वा हवनपूजनं च सम्पाद्य स्वकुलस्य सुखसमृद्ध्यै प्रार्थनां कृतवन्तः।

सम्पूर्णं नगरं भक्त्या प्रकाशेन च आलोकितं जातम्।

मन्दिरेषु घाटेषु गृहेषु च दीपान् प्रज्वाल्य श्रद्धालवः देवदीपावलिं आचरन्।

श्रूयते यत् अस्मिन् दिने देवताः स्वयम् अपि गङ्गास्नानार्थं पृथिवीं अवतरन्ति।

सायंकाले दीपमालाभिः शोभितः कन्हरनदीतीरः इव भूमौ स्वर्गस्य द‍ृश्यं प्रादर्शयत्।

धर्माचार्याः वदन्ति यत् कार्तिकपूर्णिमा केवलं स्नानदानयोः पर्वं न, अपितु आत्मशुद्धेः सत्कर्मणः च प्रतीकः अस्ति।

श्रद्धालवः अस्मिन् अवसरः अन्नवस्त्रदीपदानानि दत्त्वा महत् पुण्यम् अर्जितवन्तः।

---------------

हिन्दुस्थान समाचार