छत्तीसगढ़ राज्योत्सवः - बॉलीवुड गायकः अंकित तिवारी विकीर्णवान् स्वराणां ऐंद्रजालं, तदीयप्रेम्णि निमग्नाः संगीत प्रेमिणः
- छत्तीसगढ़ी लोकस्वराणां आधुनिक गीत-संगीतस्य च जातोऽद्भुतः संगमः रायपुरम्, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य रजतमहोत्सवे चतुर्थदिने बुधवासरस्य रात्र्यन्ते बॉलीवूड्–छालिवूड् इत्येताभ्यां सम्बद्धः गीतसंगीतमयः महोत्सवः समारब्धः। सांस्कृतिकसंध्
छत्तीसगढ़ राज्योत्सव के चाैथे दिन सजी सुरों की महफ़िल


- छत्तीसगढ़ी लोकस्वराणां आधुनिक गीत-संगीतस्य च जातोऽद्भुतः संगमः

रायपुरम्, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य रजतमहोत्सवे चतुर्थदिने बुधवासरस्य रात्र्यन्ते बॉलीवूड्–छालिवूड् इत्येताभ्यां सम्बद्धः गीतसंगीतमयः महोत्सवः समारब्धः।

सांस्कृतिकसंध्यायाम् बॉलीवूड्गायकः अंकिततिवारी नामकः रामभजनगीतैः शुभारम्भं कृत्वा चलचित्रगीतान् स्वस्य विशिष्टेण शैलीना आवाहितवान्।

तस्य मधुरगायनं श्रुत्वा उपस्थितदर्शकाः श्रोतारश्च हर्षोत्फुल्लाः भूत्वा सततं तालीः प्राहरन्।

यदा सः “सुन रहा है ना तू – गलियां तेरी गलियां”, “ये दिल संभल जा ज़रा – फिर मोहब्बत करने चला” इत्यादीनि गीतानि गायामास, तदा युवासमाजे उत्साहः उमङ्गः च स्पष्टं द्रष्टुं लभ्यते स्म।

संगीतप्रेमिणः अंकितस्य आशिकीभावेन आकृष्टाः आसन्, ते आसनात् उत्थाय हस्तान् उत्थाप्य मोबाइलदीपप्रकाशं प्रज्वाल्य दर्शयामासुः यत् ते गीतश्रवणाय, गायकदर्शनाय, मनोरञ्जनस्नानाय च आगताः।

मञ्चे छत्तीसगढ़स्य पारम्परिकलोकसंगीतस्य आधुनिकसंगीतस्य च रमणीयः संगमः अपि दृश्यः।

छत्तीसगढ़स्य परम्पराकलाया आधुनिकसंगीतस्य च सः मेलः दर्शकाणां कृते अविस्मरणीयः जातः।

लोकसंगीतस्य मधुरप्रस्तुतयः, बॉलीवूड्सुराणां झंकारश्च, जनान् रात्र्यन्तं नर्तनाय, गानाय, तालीप्रहाराय च प्रेरितवन्तः।

कार्यक्रमस्य आरम्भः प्रसिद्धाया लोकगायिकायाः रेखा देवार इत्यस्याः सुमधुरैः छत्तीसगढ़ीगीतैः अभवत्।

सा “मया के बंधन”, “छत्तीसगढ़ मया के धरती”, “अरपा पैरी के धार” इत्यादीनां जनप्रियगीतानां प्रस्तुति कृतवती।

तस्याः गायनशैलीमध्ये प्रदेशस्य संस्कृति: परम्परा च सादृश्यम् सौन्दर्यं च स्पष्टं प्रतीयते।

सैव पारम्परिकविवाहगीतं, ददरिया, फाल्गीतं, पन्थीगीतं च प्रस्तुत्य दर्शकान् छत्तीसगढ़स्य लोकसंस्कृत्या सह संलग्नान् अकुरुत।

ततः कलाकेंद्ररायपुरबैंड् इत्यस्य कलाकारः राहुलः स्वदलेन सह गीतप्रस्तुतिं कृतवान्।

अनन्तरं छालिवूड् चलचित्रस्य सुप्रसिद्धनटः प्रकाश अवस्थी स्वदलेन सह जनान् प्रति लोकप्रियगीतानां गायनं कृत्वा ऊर्जा-उत्साहयोः संचारं कृतवान्।

ते लोकगीतैरपि प्रदेशस्य परम्परां लोकजीवनं सांस्कृतिकसमृद्धिं च जीवद्रूपेण प्रस्तुय्य, छत्तीसगढ़मातरं प्रति आराधनायुक्तान् गीतान्, प्रसिद्धां छत्तीसगढ़ीचलचित्रं मोर छइयां भुइयां, टूरा रिक्शा वाला इत्यादीनि अपि गायामासुः।

सांस्कृतिकसंध्यायाः मुख्याकर्षणम् आसीत् बॉलीवूड्पार्श्वगायकः अंकिततिवारी, यः स्वस्य लोकप्रियगीतप्रस्तुतिभिः सर्वान् दर्शकान् मन्त्रमुग्धान् अकुरुत्।

यदा सः “सुन रहा है ना तू...” तथा “तेरी गलियां...” इत्येतौ गीतौ गायामास, तदा समग्रराज्योत्सवपरिसरः तालिघोषैः उत्साहेन च गुंजितः।

अंकिततिवारी “तेरे बिना जी ना लगे”, “तू है कि नहीं”, “भूल ना पाया” इत्यादीनां गीतानां प्रस्तुति कृत्वा उपस्थितजनसमूहम् भावनास्वरमयलोके निमग्नम् अकुरुत।

तस्य मधुरस्वरः सजीवगायनं च राज्योत्सवस्य चतुर्थसन्ध्यां अविस्मरणीयां कृतवन्तौ।

एषा राज्योत्सवसन्ध्या छत्तीसगढ़मृत्तिकासुगन्धस्य बॉलीवूड्ज्योत्स्नायाश्च अद्भुतः संयोगः अभवत्,

यः सर्वान् दर्शकान् रात्र्यन्तं संगीततरङ्गेषु नर्तनाय गानाय च प्रेरितवान्।

दूरदूरात् आगताः युवा-दर्शकाः श्रोतारश्च छत्तीसगढ़ीयभावेन स्वसन्तोषं उल्लासं च व्यक्तवन्तः।

---------------

हिन्दुस्थान समाचार