कार्तिक पूर्णिमायां श्रद्धालवोऽकुर्वन् पवित्रस्नानम्
पटना, 5 नवंबरमासः (हि.स.)।सारणजनपदस्य सोनपुरनगरे कार्तिकपूर्णिमायाः अवसरि बुधवासरे श्रद्धालूनां महान् समुदायः समागतः। गङ्गागण्डकिनद्योः सङ्गमतटे श्रद्धालवः पवित्रस्नानं कृत्वा पूजाऽर्चनां च अकुर्वन्। मान्यता अस्ति यत् कार्तिकपूर्णिमायां दिने सङ्गमे
सोनपुर में कार्तिक पूर्णिमा पर श्रद्धालुओं ने किया पवित्र स्नान


पटना, 5 नवंबरमासः (हि.स.)।सारणजनपदस्य सोनपुरनगरे कार्तिकपूर्णिमायाः अवसरि बुधवासरे श्रद्धालूनां महान् समुदायः समागतः। गङ्गागण्डकिनद्योः सङ्गमतटे श्रद्धालवः पवित्रस्नानं कृत्वा पूजाऽर्चनां च अकुर्वन्। मान्यता अस्ति यत् कार्तिकपूर्णिमायां दिने सङ्गमे स्नानं कृत्वा पापक्षयः भवति मोक्षः च लभ्यते।

रात्र्यां प्रभृत्ति एव घाटेषु श्रद्धालवः उपविष्टाः। स्त्रियः पुरुषाः वृद्धाश्च आस्थया सह स्नानं कृत्वा भगवतः आराधनां कृतवन्तः। प्रशासनस्य पक्षतः सुरक्षा–व्यवस्थायाः विस्तीर्णाः प्रबन्धाः कृताः। एनडीआरएफ् दलं गोताखोराः पुलिस्बलञ्च घाटेषु नियुक्ताः आसन् यथा काचिद् अप्रियघटना न भवेत् इति।

सोनपुरमेले अपि अस्मिन् अवसरि विशेषा चञ्चलता आसीत्। स्थानीयदुकानेषु अस्थायिमार्केटेषु च क्रेतॄणां भीड् अपि दृश्यन्ते स्म। कार्तिकपूर्णिमास्नानस्य सम्पन्नेन सह पारम्परिकरूपेण सोनपुरमेला स्वे चरमे चरणे प्राप्तः।

जिलाधिकारी अमनसमीरवर्यः वरिष्ठपुलिसअधीक्षकः डॉ॰ कुमारआशीष्च संयुक्तरूपेण सोनपुर–अनुमण्डलान्तर्गतं बाबाहरिहरनाथमन्दिरं कालिघाटं च स्थलीयरीत्या निरीक्ष्य विधिव्यवस्थायाः स्थितिं परीक्ष्य अवलोकितवन्तौ। तस्मिन्नवसरे क्षेत्रान्तर्गतसर्वेषु महत्वपूर्णेषु स्थलेषु स्थापितानां सीसीटीवी–क्यामेराणां हरिहरनाथमन्दिरे च स्थितानां सर्वेषां क्यामेराणां मॉनिटर्–माध्यमेन प्रतिक्षणं क्रियमाणायाः निग्रहेः निरीक्षणं कृतं च। सम्बन्धितपदाधिकारीभ्यः पुलिस्पदाधिकारिभ्यश्च आवश्यकाः निर्देशाः दत्ताः।

---------------

हिन्दुस्थान समाचार