Enter your Email Address to subscribe to our newsletters

कोलकाता, 05 नवम्बरमासः (हि.स.)।पश्चिमबङ्गराज्यस्य राज्यपालः सी वी आनन्दबोसः मुख्यमन्त्री ममताबेनर्जी च बुधवासरे श्रीगुरुनानकदेवस्य पञ्चशतं षट्पञ्चाशदधिक (५५६) जयंतीं अवसरं स्मरन्तौ श्रद्धांजलिं समर्प्य तस्य शिक्षाणां सार्वभौमिकत्वं मानवतायाश्च सन्देशं स्मृतवन्तौ।राज्यपालः स्वसन्देशे अवदत् यत् श्रीगुरुनानकदेवस्य आध्यात्मिकविकासः करुणायाः न्यायस्य च मार्गः कस्यापि सीमायां न बद्धः अस्ति, अद्यापि च समाजं प्रेरयति। सः प्रार्थितवान् यत् तस्य शिक्षाः जनान् करुणासौहार्दमानवसेवारूपे मार्गे अनुवर्तितुं निरन्तरं मार्गदर्शनं कुर्वन्तु।मुख्यमन्त्री अपि सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् सन्देशं लिखित्वा श्रद्धांजलिं समर्प्य उक्तवती यत्“वाहेगुरुजी का खालसा, वाहेगुरुजी की फतेह। श्रीगुरुनानकदेवजयंतीदिने हार्दिकं नमः।”सा अवदत् यत् श्रीगुरुनानकदेवस्य शिक्षाः शान्तेः समानतेः ऐक्यस्य च मार्गस्य प्रतीकाः सन्ति।
-----------------------
हिन्दुस्थान समाचार