वाराणस्यां देव दीपावल्यां गंगा तटानां स्वच्छतायै सौन्दर्यं दीपितम्
- नमामि गंगे दशाश्वमेध घट्टे विकीर्णः अवकारः अवकारकंडोले प्रापितः वाराणसी,5 नवंबरमासः (हि.स.)।देवदीपावलिपर्वणि बुधवासरे धर्मनगरी काश्याम् उत्तरवाहिन्याः मांगङ्गायाः तटः गङ्गासंरक्षणस्य गगनभेदीघोषैः निनादितः। सनातनवैभवं दैदीप्यमानं कृत्वा सम्पूर्णं
गंगा किनारे स्वच्छता की अलख जगाते नमामि गंगे के सदस्य


- नमामि गंगे दशाश्वमेध घट्टे विकीर्णः अवकारः अवकारकंडोले प्रापितः

वाराणसी,5 नवंबरमासः (हि.स.)।देवदीपावलिपर्वणि बुधवासरे धर्मनगरी काश्याम् उत्तरवाहिन्याः मांगङ्गायाः तटः गङ्गासंरक्षणस्य गगनभेदीघोषैः निनादितः। सनातनवैभवं दैदीप्यमानं कृत्वा सम्पूर्णं जगत् आलोकयन्त्या कार्तिकपूर्णिमायाः अस्मिन् पावने पर्वणि “नमामि गङ्गे” इत्यस्य अधिकारिणः प्राचीनदशाश्वमेधघाटे सहस्रशः भक्तजनान् प्रति गङ्गास्वच्छतायाः प्रति जागरूकतां प्रबोधयामासुः।

तस्मिन् काले नमामि गङ्गे इत्यस्य स्वयंसेवकसदस्यैः श्रद्धायाः सीढीषु पतिता अपवित्रता निष्प्रयोज्यवस्तूनि च संगृह्य कूर्चस्थानं प्रति नीतानि। जनानां प्रति ध्वनिविस्तारकेन निवेदनं कृतम्— “मा गङ्गायां मलिनतां कुरुत, मा च गम्भीरे जले स्नानं कुरुत।”

नमामि गङ्गे काशिक्षेत्रसंयोजकः राजेशशुक्लः अवदत् यत् “देवदीपावलिः जलसंरक्षणस्य महत्त्वं दर्शयति। मां गङ्गा भारतस्य जीवनप्रदायिनी अस्ति। प्रतिदिनं कोट्यः जनाः तस्याः उपरि आजीविकां निर्भरन्ति। सम्पूर्णउत्तरभारतस्य पर्यटनं गङ्गायामेव आधारितम्। गङ्गायाः कृपया एव वयं सप्तसमुद्रान् अतीत्य अपि जनान् आकर्षयन्तः देवदीपावलिपर्वस्य आयोजनं कर्तुं शक्नुमः।”

सः उक्तवान् यत् “भारतीयैः मांगङ्गायै प्रति कृतज्ञतां व्यक्त्वा स्वच्छतां पालनं अत्यावश्यकम्।” आयोजनकाले सहस्रशः भक्तजनाः गङ्गातटस्य स्वच्छतायाः प्रतिज्ञां कृतवन्तः।

---------------

हिन्दुस्थान समाचार