Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 5 नवंबरमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्रिणो रेखा गुप्तायाः मैथिलिभोजपुरीजनप्रियलोकगायिकायाः ‘पद्मभूषण’शारदासिन्हायाः पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा नमस्कृतवती। मुख्यमन्त्रिण्या अद्य स्वस्य सामाजिकसञ्चारमाध्यमे ‘एक्स्’ नामके लेखे प्रकाशिते उक्तम्— “लोकगायिका ‘पद्मभूषण’ शारदासिन्हायाः मधुरस्वरेण लोकगीतानि जनजनस्य हृदयेषु प्रापितानि। शारदायाः गीतैः भारतीयसंस्कृतेः नूतनं गौरवं प्राप्तम्। सा स्वैः सुरैः पर्वाणि परम्पराः मातृभूमेः च मृद्गन्धं च अमरं कृतवती।”
मुख्यमन्त्रिणा उक्तं यद् “अद्यापि भवत्याः गीतानि लोकसंस्कृतेः पर्वणां च आत्मा इव सन्ति। एतत् सूचयति यत् भवत्याः कला केवलं संगीतं न, किन्तु अस्माकं सांस्कृतिकचेतनायाः धुरी अस्ति।”
---------------
हिन्दुस्थान समाचार