छत्तीसगढ़राज्योत्सवे गायकः कैलाशखेरः अद्य भव्यं प्रस्तुतीकरणं करिष्यति, कार्यक्रमस्य समापनम् अपि अद्य एव भविष्यति
रायपुरम्, 5 नवंबरमासः (हि.स.)। छत्तीसगढराज्यस्थापनादिवसस्य रजतजयंतीवर्षं भव्यरूपेण आयोज्यते। पञ्चदिनात्मकस्य राज्योत्सवकार्यक्रमस्य अद्य बुधवासरे अन्तिमदिनं भवति। अस्मिन् राज्योत्सवे अद्य गायकः कैलाशखेरः स्वस्य अद्भुतां प्रस्तुतीं करिष्यति। तस्य गी
सिंगर कैलाश खेर


रायपुरम्, 5 नवंबरमासः (हि.स.)। छत्तीसगढराज्यस्थापनादिवसस्य रजतजयंतीवर्षं भव्यरूपेण आयोज्यते। पञ्चदिनात्मकस्य राज्योत्सवकार्यक्रमस्य अद्य बुधवासरे अन्तिमदिनं भवति। अस्मिन् राज्योत्सवे अद्य गायकः कैलाशखेरः स्वस्य अद्भुतां प्रस्तुतीं करिष्यति। तस्य गीतसंगीतप्रस्तुती रात्रौ नववादने आरभ्य भविष्यति, या दर्शकान् मोहितान् करिष्यति।

सांस्कृतिकसन्ध्यायां सायं षड्वादने मतिपूनमविराटतिवारी, इन्दिराकलासंगीतविश्वविद्यालयखैरागढस्य कार्यक्रमः भविष्यति।

एतेषां अतिरिक्तं दुर्गासाहू पाण्डवानी, डालीथरवानी कथकनृत्यम्, संजयनारंगः लोकसंगीतम्, सारिकाशर्मा कथकनृत्यम्, महेश्वरीसिंहा लोकमञ्चम्, चन्द्रशेखरचकोरः लोकनाट्यम्, नीतिनग्रवालः लोकसंगीतम्, द्वारिकाप्रसादसाहू डण्डानृत्यम्, महुआमजुमदारः लोकसंगीतम्, नरेन्द्रजलक्षत्रीयः अपि लोकसंगीतप्रस्तुतीं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता