Enter your Email Address to subscribe to our newsletters

अररिया, 06 नवम्बरमासः (हि.स.)।देवदीपावलीपर्वणि परमाननद्याः त्रिशूलियाघट्टः पञ्चसहस्रएकपञ्चाशत् (५०५१) दीपैः प्रकाशमानोऽभवत्। तस्मिन् अवसरे विश्वहिन्दूपरिषदः पक्षेण परमाननदीतीरे भव्यमहाआरतीनामकः कार्यक्रमः आयोजितः। वाराणस्याः आगतैः पञ्चभिः पण्डितैः वैदिकमन्त्रौच्चारणेन सह महाआरती कृता। तदीयं मनोहरं दृश्यं प्रस्तुतम्।
वाराणसीतः विशेषतया एते पञ्च पण्डिताः आमन्त्रिताः आसन्, ये विधिविधानपूर्वकं मन्त्रौच्चारणसहितं वैदिकपरम्परानुसारं महाआरतीं सम्पादितवन्तः। घाटः विविधवर्णैः पुष्पैः गुलालेन च सुशोभितः आसीत्।
तस्मिन् स्थले सुरक्षाबलेषु बहूनां सैनिकानां नियुक्तिः कृता आसीत्। सुरक्षा–व्यवस्थायां विश्वहिन्दूपरिषदः कार्यकर्तारः अपि उपस्थिताः आसन्। श्रद्धालूनां सुविधायै आयोजनस्थलपर्यन्तं गमनाय पृथक् वाहन–निवेशन–स्थलस्य (पार्किङ्गस्य) व्यवस्था अपि कृताभूत्।
अस्मिन् कार्यक्रमे शतशः नार्यः, बालकाः, पुरुषाः च सम्मिलिताः आसन्। आयोजकैः उक्तं यत्, एषा परम्परा गतपञ्चवर्षेभ्यः निरन्तरं प्रवहति। एषः उत्सवः हिन्दूसंस्कृतेः जीवन्ततां प्रकाशयति, आगामिवर्षेषु च अस्य आयोजनं अधिकं भव्यं भविष्यति।
देवदीपावली कार्तिकपूर्णिमायां उत्सवभावेन आचर्यते, सा च मातृगङ्गायाः आराधनारूपः परमपवित्रं पर्व इति मन्यते।
हिन्दुस्थान समाचार