बंगाले एसआईआर इत्यस्य एन्यूमरेशन फॉर्म अधुना ऑनलाइन अपि उपलब्धं, निर्वाचनायोगोऽददात् विस्तृतसूचनाम्
कोलकाता, 06 नवम्बरमासः (हि.स.)।पश्चिमबङ्गालराज्ये मतदातृसूच्याः विशेषगहनपुनरीक्षणकार्यक्रमस्य (एस्‌आइआर्) अन्तर्गतं अधुना एन्यूमरेशन–फार्म् इत्याख्याः प्रपत्राणि ऑनलाइन–रूपेण अपि उपलब्धानि भविष्यन्ति। गुरुवासरप्रातःकालादारभ्य मतदातारः निर्वाचनायोगस
एसआईआर


कोलकाता, 06 नवम्बरमासः (हि.स.)।पश्चिमबङ्गालराज्ये मतदातृसूच्याः विशेषगहनपुनरीक्षणकार्यक्रमस्य (एस्‌आइआर्) अन्तर्गतं अधुना एन्यूमरेशन–फार्म् इत्याख्याः प्रपत्राणि ऑनलाइन–रूपेण अपि उपलब्धानि भविष्यन्ति। गुरुवासरप्रातःकालादारभ्य मतदातारः निर्वाचनायोगस्य अधिकृत–जालपुटे (official website) तथा मोबाइल–अनुप्रयोगे (mobile app) माध्यमेन प्रपत्रं अवारोपयन्ति (download) च तच्च पूरयितुं शक्नुवन्ति। एतस्मात् ते लाभं प्राप्स्यन्ति ये बीएलओ (Booth Level Officer) इत्याख्यातान् अधिकृतान् प्रति प्रत्यक्षतया गत्वा प्रपत्रं प्राप्तुं न शक्नुवन्ति — विशेषतः ते मतदाता ये कार्यकारणवशात् राज्यात् बहिः निवसन्ति।

निर्वाचनायोगस्य निवेदनानुसारं ऑनलाइन–प्रपत्रस्य प्राप्तिः पश्चिमबङ्गालस्य मुख्यनिर्वाचनाधिकारिणः अधिकृत–जालपुटस्य माध्यमेन सम्भविष्यति। तदन्यथा आयोगस्य मोबाइल–अनुप्रयोगे ‘ईसीआइनेट्’ इति नाम्नि अपि एषा सुविधा प्रदत्ता अस्ति। तकनीकीदोषकारणात् एषा व्यवस्था मङ्गलवासरात् प्रारम्भुं न शक्नोति स्म, किन्तु अद्य गुरुवासरात् आरभ्य प्रपत्रम् ऑनलाइन उपलब्धम् अभवत्।

वरिष्ठाधिकाऱिणा उक्तं यत्, प्रपत्रं अवारोप्य तत् ऑफलाइन–रूपेण यथा पूर्यते तथा एव पूरयित्वा निर्धारितप्रक्रियानुसारं पोर्टले अपलोडं कर्तव्यम्। अपलोड–विषये विस्तीर्णा मार्गदर्शिका अपि तस्मिन् पोर्टले उपलब्धा भविष्यति।

तत्समये बीएलओ–अधिकृताः राज्यस्य सर्वेषु भागेषु गृहे गृहे गत्वा प्रपत्राणि वितरयन्ति, आवश्यकजानकारीं च संगृह्णन्ति। आयोगेन राज्ये अशीतिसहस्रात् अधिकान् बीएलओ–अधिकृतान् अस्मिन् अभियानि नियुक्तान् कृतम्। बुधवासररात्रौ अष्टवादनपर्यन्तं एककोट्यधिकानि (१.१० कोट्यधिकानि) एन्यूमरेशन–प्रपत्राणि जनानां मध्ये वितरितानि। बीएलओ–कार्यपर्यवेक्षणाय मतदातॄणां सुविधाय च राजनैतिकदलगणैः स्वीयान् बूथ–लेवल–एजेन्ट् (बीएलए) इत्याख्यान् अपि नियुक्ताः।

उल्लेखनीयम् यत्, एषा एस्‌आइआर्–प्रक्रिया केवलं पश्चिमबङ्गालराज्ये न, अपि तु देशस्य अन्येषां एकादशराज्यानां केन्द्रशासितप्रदेशानां च मध्ये एकत्र प्रवर्तते। आयोगस्य लक्ष्यं भवति — आगामिनिर्वाचनपूर्वं मतदातृसूचिं पूर्णां, यथार्थां, अद्यतनां च कर्तुम्।

हिन्दुस्थान समाचार