Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 06 नवम्बरमासः (हि.स.)।असमराज्यस्य राज्यपालः लक्ष्मणप्रसादाचार्यः अद्य राजभवने राज्यस्थ विश्वविद्यालयानां निजीविश्वविद्यालयानां च लोकपालैः सह गोष्ठीं कृतवान्। तेन उच्चशिक्षायां नीतितत्त्वस्य पारदर्शितायाः उत्तरदायित्वस्य च सुदृढीकरणे बलं दत्तम्। राज्यपालेन उक्तं यत् लोकपालाः विश्वविद्यालयव्यवस्थायां न्यायस्य सत्यस्य च “प्रहरी” भवन्ति, ये निष्पक्षतया नैतिकशक्त्या च कार्यं कुर्वन्ति। सः एतदपि उपदिष्टवान् यत् विश्वविद्यालयलोकपालकक्षं तंत्रज्ञानस्य पारदर्शितायाः समयोचितनिस्तारणस्य च दिशि अधिकं सुदृढं कर्तव्यम्, येन विद्यार्थिनां विश्वासः वर्धेत।
---------------
हिन्दुस्थान समाचार