मतदातृसूची पुनरीक्षणं तीव्रं, 1950 सहायकसंख्यया लप्स्यते प्रत्येकं सूचना
मीरजापुरम्, 06 नवंबरमासः (हि.स.)।विशेषप्रगाढपुनरीक्षणकार्यक्रमस्य अन्तर्गते मीरजापुरजनपदे मतदाता गणनापत्रवितरणकार्यं शीघ्रतया प्रवर्तते। सम्बन्धितोपजिलाधिकारी विकासखण्डाधिकारी च स्वस्वक्षेत्रेषु बीएलओनामकानां द्वारा पत्रवितरणसंग्रहणयोः निरीक्षणं क
जिलाधिकारी पवन कुमार गंगवार


मीरजापुरम्, 06 नवंबरमासः (हि.स.)।विशेषप्रगाढपुनरीक्षणकार्यक्रमस्य अन्तर्गते मीरजापुरजनपदे मतदाता गणनापत्रवितरणकार्यं शीघ्रतया प्रवर्तते। सम्बन्धितोपजिलाधिकारी विकासखण्डाधिकारी च स्वस्वक्षेत्रेषु बीएलओनामकानां द्वारा पत्रवितरणसंग्रहणयोः निरीक्षणं कुर्वन्ति। जिलाधिकारी पवनकुमारगंगवारेण जनसामान्यं प्रति आह्वानं कृतं यत् गणनापत्रं पूरयितुं यदि काचिद् कठिनता वा जानकारीस्य आवश्यकता भवेत् तर्हि कश्चन अपि जनः टोल्फ्रीसंख्या 1950 इत्यस्य उपयोगं कृत्वा प्रातः अष्टवादनात् सायं अष्टवादनपर्यन्तं सम्पर्कं कर्तुं शक्नोति। जनपदस्य सर्वासु पञ्चासु विधानसभा-क्षेत्रेषु छानबे विधानसभा-क्षेत्रे ३,७१,९३२, मीरजापुरे ४,०४,१६२, मझवां मध्ये ४,०६,७०६, चुनारे ३,५६,९४३, मडिहाने ३,७०,५५७ मतदातारः पञ्जीकृताः सन्ति।

---------------

हिन्दुस्थान समाचार