Enter your Email Address to subscribe to our newsletters

पटना, 6 नवंबरमासः (हि.स.)। बिहारराज्यस्य उपमुख्यमन्त्रिणा सम्राटचौधरिणा प्रथमचरणस्य विधानसभाचुनावेषु स्वस्य मतदानं कृतम्। सः स्वगृहे स्थिते तारापुरनाम्नि विधानसभा–क्षेत्रे लोकतन्त्रस्य महापर्वणि स्वस्य मतस्य प्रयोगं कृतवान्।
तस्मिन् अवसरे मतदातॄन् सम्बोध्य सः अवदत् यत्, “यूयं सर्वे लोकतन्त्रस्य अस्य महापर्वं उत्साहेन आचरन्तु, अग्रे आगत्य सक्रियतया मतदानं कुरुत।”
सः अपि उक्तवान् — “यूयं सर्वे सशक्तं, सुरक्षितं, समृद्धं, विकसितं च बिहारराज्यं निर्मातुं मतं ददात। एवं कृत्वा बिहारस्य विकासः अधिकेन वेगेन प्रवर्तिष्यते”।
---------------
हिन्दुस्थान समाचार