Enter your Email Address to subscribe to our newsletters

कोलकाता, 7 नवम्बरमासः (हि.स.)। पश्चिमबङ्गसरकारा राज्यस्य सर्वेषु शासकीयेषु शासनसहायतप्राप्तेषु च विद्यालयेषु प्रातःकालीनप्रार्थनाकाले राज्यगीतस्य “बाङ्गलार्माटी, बाङ्गलार्जल” इत्यस्य प्रतिदिनं सामूहिकगायनम् अनिवार्यं कृतवती। एतदर्थं राज्यस्य माध्यमिकशिक्षामण्डलेन उच्चप्राथमिकमाध्यमिकविद्यालयाध्यक्षान् प्रति अधिसूचना प्रेषिता, यत् ते आवश्यकानि उपक्रमाणि स्वीकरोतु।
राज्यशिक्षामन्त्री ब्रात्यबसु नामकः गुरुवासररात्रौ सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् पोस्टं कृत्वा उक्तवान् यत् रवीन्द्रनाथटागोरमहोदयेन 1905 तमे वर्षे रचितं तद्गीतं अधुना सर्वेषु विद्यालयेषु प्रार्थनागीतरूपेण गीयते। सः अपि उक्तवान् यत् अस्य सह “जनगणमन” इति राष्ट्रीयगानस्य नियमितगायनं यथावत् प्रवर्तिष्यते। बसु इत्यनेन उक्तं यत् राज्यगीतस्य च राष्ट्रीयगानस्य च नियमितसामूहिकपाठः विद्यार्थिनां मध्ये सामाजिकसौहार्दं साम्प्रदायिकैक्यं च दृढीकर्तुं प्रेरकं भूमिकां वहति।
हिन्दुस्थान समाचार / Dheeraj Maithani