Enter your Email Address to subscribe to our newsletters

वाराणसी, 07 नवम्बरमासः (हि. स.)।श्रीकाशीविश्वनाथमन्दिरस्य चतुर्दिक् नगरनिगमस्य स्वच्छताकर्मिणः शुक्रवासरे शिल्टशोधनं, कूड़ाव्यवस्थापनं, मलबोद्धारणं च इत्यादीनि स्वच्छताकार्याणि अभियानरूपेण अकरोत्। नगरनिगमनिरीक्षकः आशीषः श्रीवास्तवः, आदिविश्वेश्वरवार्डसंख्यायाः ६९ पार्षदः इन्द्रेशसिंहश्च प्रभाते स्वच्छताकार्याणामवलोकनं कृतवन्तौ। ततः परं नीचीबागप्रदेशे पार्षदेन इन्द्रेशसिंहेन सर्वैः स्वच्छताकर्मिभिः सह वार्ता कृताऽभूत्, यस्यां श्रीकाशीविश्वनाथमन्दिरसंबद्धमार्गेषु गलिषु च स्वच्छतायाः स्थैर्यं सुनिश्चितम्।
नगरनिगमनिरीक्षकः आशीषः श्रीवास्तवः अवदत् यत् श्रीकाशीविश्वनाथमन्दिरे दर्शनार्थं प्रातःकालादेव श्रद्धालूनां आगमनं गमनं च आरब्धम्। प्रतिदिनवत् कूड़ाव्यवस्थापनकार्यं क्रियते। अद्य तु विशेषरूपेण गलिषु मार्गेषु च स्वच्छताकार्याणि सम्पन्नानि, सर्वे स्वच्छताकर्मिणोऽपि उपस्थिताः आसन्।
मार्गेषु मलबस्य निक्षेपः समस्या जातः, यस्य समाधानाय प्रयत्नः क्रियते। मलबस्य मार्गे निक्षेपणेन कूड़ोद्धारकर्मिणां कष्टानि सञ्जायन्ते, तथापि नगरनिगमेन मलबोद्धारणाय यत्नः कृतः।
पार्षदः इन्द्रेशसिंहः उक्तवान् यत् प्रातः षड्वादनात् आरभ्य बुलानालाचौकनीचीबागादिप्रमुखमार्गेषु स्वच्छताकार्याणि सम्पन्नानि। श्रीकाशीविश्वनाथमन्दिरस्य ज्ञानवापीद्वारतः सहस्रशः शिवभक्ताः प्रतिदिनं दर्शनपूजनार्थं गच्छन्ति। ज्ञानवापीद्वारं प्रति नीचीबागं बुलानालं मार्गेण गन्तव्यम्। अतः एतेषां मार्गाणां स्वच्छतायाः विशेषरूपेण ध्यानं धार्यते।
---------------
हिन्दुस्थान समाचार