“वन्दे मातरम्” अस्माकं राष्ट्रियात्मनः प्रतीकः इति अनुरागः ठाकुरः।
शिमला, 07 नवम्बरमासः (हि.स.)। राष्ट्रियगीतस्य “वन्दे मातरम्” इत्यस्य 150 तमवर्षसम्पूर्तौ-स्मरणोत्सवस्य अवसरे शुक्रवासरे शिमलायां आयोजिते कार्यक्रमे पूर्वकेंद्रीयमन्त्री, हमीरपुर-लोकसभाक्षेत्रस्य सांसदः श्री अनुरागसिंहः ठाकुरः राष्ट्रगीतं भारतस्य आत
अनुराग ठाकुर वंदे मातरम पर आयोजित समारोह में


शिमला, 07 नवम्बरमासः (हि.स.)। राष्ट्रियगीतस्य “वन्दे मातरम्” इत्यस्य 150 तमवर्षसम्पूर्तौ-स्मरणोत्सवस्य अवसरे शुक्रवासरे शिमलायां आयोजिते कार्यक्रमे पूर्वकेंद्रीयमन्त्री, हमीरपुर-लोकसभाक्षेत्रस्य सांसदः श्री अनुरागसिंहः ठाकुरः राष्ट्रगीतं भारतस्य आत्मनः एकतायाः च प्रतीकं इति निर्दिष्टवान्।

अस्मिन् अवसरे सः “वन्दे मातरम्” इत्यस्य सामूहिकं गायनं कृत्वा उपस्थितजनान् संबोधितवान्।

अनुरागः ठाकुरः अवदत् यत् भारतस्य एकता-अखण्डतायाः स्वाधीनतायाः आत्मनिर्भरतायाश्च भावनां सशक्तीकर्तुं “वन्दे मातरम्” इत्यस्य योगदानं अतुलनीयम् अस्ति।

सः उक्तवान् यद्“वन्दे मातरम्” केवलं राष्ट्रगीतं न, अपितु जीवतः राष्ट्रस्य आत्मा एव।

एतत् गीतं स्वातन्त्र्य-संग्रामकाले अनगण्यान् राष्ट्रनायकेषु प्रेरणां दत्तवान्, अद्यापि च अस्माकं कर्म-संकल्प-आत्मबलानां मन्त्ररूपेण स्थितम् अस्ति इति।

ततः सः उक्तवान् यत् यदा राष्ट्रं प्रधानमन्त्रिणा नरेन्द्रमोदिना नेतृत्त्वेन विकसित-भारत-संकल्पस्य दिशि गच्छति, तदा “वन्दे मातरम्” इत्यस्य संदेशः अस्मान् आत्मनिर्भर-भारत-निर्माणाय प्रेरयति।

सः एतदवसरं केवलं इतिहासस्मरणस्य न, अपि तु स्वदेशीभावस्य आत्मनिर्भरतायाश्च संकल्पस्य पुनःस्मरणस्य दिवसं इति वर्णितवान्।

कार्यक्रमे अनुरागः ठाकुरः उक्तवान् — “वन्दे मातरम्” केवलं गीतं न, अपितु प्रत्येकभारतीयस्य हृदयमध्ये वहमानः सः भावः यः अस्मान् मातृभूमेः मृत्तिकायाः सुगन्धायाः अस्मितायाः च सह संयोजयति।

सः अपि अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदीना राष्ट्रगीतस्य सम्मानार्थं स्मारक-मुद्रां डाक-चिटीकां च प्रकाशितं, यत् राष्ट्रनायकानां स्वातन्त्र्यसैनिकानां च योगदानस्य प्रति सम्मानस्य प्रतीकं भवति।

ततः सः देशवासिनः प्रति आह्वानं कृतवान् यत् ते सप्तमदिनाङ्कात् षड्विंशतिदिनाङ्कपर्यन्तं देशव्यापिनि “वन्दे मातरम्”-सामूहिक-गायन-कार्यक्रमेषु सहभागी भवन्तु, राष्ट्रस्य राष्ट्रगीतेः च प्रति स्वं सम्मानं समर्पणं च व्यक्तयन्तु इति।

अनुरागः ठाकुरः अवदत् यद् एषः शतपञ्चाशदधिकशततमः वार्षिकोत्सवः केवलं सांस्कृतिक-आयोजनं न, अपि तु भारतस्य आत्मनः स्वाभिमानस्य एकतायाः च उत्सवः अस्ति, यः अस्मान् गौरवं प्रेरणां च ददाति इति।

हिन्दुस्थान समाचार / Dheeraj Maithani