Enter your Email Address to subscribe to our newsletters

नवदेहली, ७ नवम्बरमासः (हि.स.)। युवसङ्गठनस्य आयोजननेन त्रिदिवसीयः वार्षिकः युवा-संवादः “विमर्शः २०२५” इत्यस्य भव्यः उद्घाटनसमारम्भः शुक्रवासरे देहलीविश्वविद्यालयस्य कमलानेहरूमहाविद्यालये अभवत्। अस्य वर्षस्य विषयः “संविधानम् – भारतस्य आत्मा” इति निर्धारितः, यस्याधीनं युवानः, शिक्षाविदः, चिन्तकाः च संविधानस्य मूल्यानि तस्य च जीवन्तभावनां विषये गम्भीरं चिन्तनं कुर्वन्ति स्म।
कार्यक्रमस्य आरम्भः दक्षिणभारतीयपरम्परानृत्येन अभवत्, येन भारतीयसंस्कृतेः विविधता एकता च सुन्दररूपेण प्रदर्शिता। ततः महाराष्ट्रस्य लोकनृत्यस्य उत्साहपूर्णा प्रस्तुति सभागारं हर्षोल्लासाभ्यां पूरितवती। सांस्कृतिककार्यक्रमानन्तरं पूर्वविमर्शस्पर्धायाः विजेतारः सम्मानिताः।
उद्घाटनसत्रस्य आरम्भं कविन्द्रतालियानः अकरोत्। सः “युवा” सङ्गठनस्य उद्देश्यं यात्रां च परिचयन् उक्तवान् — “यथा दिशा युवेभ्यः दत्ताः, तथा एव देशस्य दशा भविष्यति।”
अस्मिन्नेव समये कैंपस-क्रॉनिकल इत्यस्य वार्षिकपत्रिकायाः “संविधानम् – द सोल् ऑफ भारत” इत्यस्य लोकार्पणम् अपि सम्पन्नम्।
विशिष्टातिथिः डी.एस.ई.यू. कुलपतिः प्रो. अशोककुमारनागावतः संविधानस्य समकालीनप्रासङ्गिकतां प्रकाश्य युवान् प्रति तस्य जीवनानुशीलनाय आह्वानं कृतवान्।
महाविद्यालयप्राचार्या प्रो. डॉ. पवित्राभारद्वाज उक्तवती — “संविधानं केवलं वैधानिकप्रपत्रं न, किन्तु अस्माकं देशस्य आत्मैव।” सा युवान् लोकतान्त्रिकमूल्यानां रक्षणाय प्रेरितवती।
देहलीविश्वविद्यालयस्य डीन् ऑफ कॉलेजेस् प्रो. बालारामपाणिः “विमर्श” इत्यस्य मंचस्य प्रशंसां कृत्वा उक्तवान् — “एतादृशः मंचः युवानः चिन्ताशीलान् उत्तरदायिनश्च नागरिकान् कर्तुं साहाय्यं करोति।”
मुख्यातिथि च मुख्यवक्ता च पूर्वन्यायधीशः न्यायमूर्तिः ए.के. गोयलः स्वसंबोधने अवदत् यद्“भारतानां संविधानं विश्वस्य सर्वाधिकजीवद्भावयुक्तानां संविधानेषु अन्यतमम् अस्ति, यस्मिन् शासनस्य संरचना एव न, अपि तु जीवनस्य दर्शनमपि निहितम् अस्ति।” सः यूनः प्रति संवैधानिकमूल्यानि आचरणस्य अङ्गीकरणाय आग्रहं कृतवान्।
कार्यक्रमस्य समापनकाले डॉ॰ प्रतिभात्रिपाठी सर्वेषां प्रति आभारं व्यक्त्वा अवदत् यत् — “विमर्शः २०२५” युवानां विचाराणां संगमः अस्ति, यः भारतस्य भविष्यदिशं निश्चितुम् अर्हति।
हिन्दुस्थान समाचार / Dheeraj Maithani