एकता नगरे भारत पर्वणः-2025 थीम पैवेलियन इत्यस्य मुख्यम् आकर्षणं ‘ग्रीन ट्री’ विकासः
टेक्नोलॉजी अथ च एकतायाः झिलमिलितः प्रतीकः गांधीनगरम्, 08 नवंबरमासः (हि.स.)।गुजरातप्रदेशस्य एकतानगरे भारतसरकारगुजरातसरकारयोः सहकार्येण विश्वस्य सर्वतोन्नता प्रतिमा “एकतामूर्तिः” इत्यस्य परिसरमध्ये भारतपर्व-२०२५ इत्यस्य थीमपविलियननाम्नि “हरितवृक्षः”
भारत पर्व-2025 में ‘ग्रीन ट्री’


भारत पर्व-2025 में ‘ग्रीन ट्री’


भारत पर्व-2025 के थीम पैवेलियन का मुख्य आकर्षण ‘ग्रीन ट्री’


टेक्नोलॉजी अथ च एकतायाः झिलमिलितः प्रतीकः

गांधीनगरम्, 08 नवंबरमासः (हि.स.)।गुजरातप्रदेशस्य एकतानगरे भारतसरकारगुजरातसरकारयोः सहकार्येण विश्वस्य सर्वतोन्नता प्रतिमा “एकतामूर्तिः” इत्यस्य परिसरमध्ये भारतपर्व-२०२५ इत्यस्य थीमपविलियननाम्नि “हरितवृक्षः” इति मुख्याकर्षणं विकासरूपेण प्रकटितम् अस्ति।

सर्दारवल्लभभाईपटेलस्य शतपञ्चाशदुत्तरजन्मजयन्त्याः अवसरं प्रति आयोजितः भारतपर्वकार्यक्रमः प्रथमवारं दिल्लीबाह्यप्रदेशे आचर्यते स्म। अस्मिन् पर्वकाले देशस्य विविधतायां एकत्वस्य प्रतीकं दर्शयन्ति सांस्कृतिकाः तन्त्रज्ञानिकाश्च देशभक्तिप्रेरिताः कार्यक्रमाः आयोजनं प्राप्नुवन्ति।

राज्यसूचनाविभागेन प्रकाशिते निवेदने उक्तम् यत् भारतपर्व-२०२५ इत्यस्य थीमपविलियने प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे साकारितानि विविधानि राष्ट्रीयपरियोजनानि विकासचिह्नानि च अद्भुतरूपेण प्रस्तुतानि सन्ति। तत्र मुख्याकर्षणं “हरितवृक्षः” इति अस्ति, यः विकसितभारतस्य स्वप्नं प्रतीकार्थं व्यक्तयति। प्रकाशितस्थापत्यरूपेण स्थितः अयं हरितवृक्षः भारतस्य सर्वाङ्गीणविकासदिशां प्रगत्यां च दार्शनिकदृष्टिं प्रकटयति। एष दृश्यावली देशभक्तेः कलायाः तन्त्रज्ञानस्य च अद्वितीयसंयोगं निर्माय देशान्तरपर्यटकानाम् अपि अद्भुतानुभूतिं जनयति।

“हरितवृक्ष” स्थापत्ये राष्ट्रीयस्तरीयाः माइलस्टोनपरियोजनाः प्रकाशरूपेण प्रदर्शिताः सन्ति, यथा — सूरतडायमण्डबोर्स्, नवीमुंबईअन्तरराष्ट्रीयविमानपत्तनम्, तेजसयुद्धविमानम्, एकतामूर्तिः, ऑपरेशन्सिन्दूर्, लक्षद्वीपविकासः, श्रीरामजन्मभूमिमन्दिरम्, समत्वमूर्तिः, महाकुम्भः २०२५, आयएनएस विक्रान्तः, सोनमर्गटनल्, विझिञ्जमअन्तरराष्ट्रीयबन्दरगाहः, अटलसेतुश्च। एते सर्वे परियोजनाः प्रधानमन्त्रिणः विकसितभारतस्य दृष्टेः साकारतायाः प्रतीकचरणरूपेण प्रकाशिताः सन्ति।

भारतपर्वस्य सम्पूर्णे परिसरमध्ये प्रकाशसंगीततन्त्रज्ञानानां समन्वयः देशभक्तेः तरङ्गं व्यापयति। “हरितवृक्षः” केवलं कलात्मकं स्थापत्यं न, अपि तु भारतस्य विकासप्रगतेः पर्यावरणप्रतिबद्धतायाश्च जीवन्तं प्रतीकं भवति। तत्र प्रदर्शितं प्रत्येकं परियोजनं प्रधानमन्त्रिणः राष्ट्रनिर्माणदृष्टेः दृश्यरूपं साकारस्वरूपं च अस्ति। हरितवृक्षः इत्युक्ते विकसितभारतस्वप्नस्य जीवनवान् वटवृक्षः।

एकतानगरे भारतपर्वकाले देशस्य विविधराज्यानां लोककलासंगीतनृत्यपरम्पराणां रम्यं प्रदर्शनं सम्पन्नम्, यत् “एकं भारतं श्रेष्ठं भारतम्” इति सजीवां अनुभूतिं जनयति। अस्य प्रकाशपर्वस्य माध्यमेन भारतस्य विकासस्य एकत्वस्य च अद्भुतं दृश्यं सृष्टं यत् राष्ट्रप्रेमगौरवभविष्यविश्वासान् च दृढतरं करोति। भारतपर्वः २०२५ केवलं उत्सवः न, किन्तु प्रधानमन्त्रिणः “विकसितभारत” इत्यस्य दृष्टेः साकारं राष्ट्रीयप्रदर्शनं भवति। एकतानगरस्य अयं प्रकाशपर्वः उज्ज्वलभविष्यभारतस्य संदेशं ददाति, यत्र प्रगतिरेका देशभक्तिश्च सह सम्मिलितः दृश्यते।

---------------

हिन्दुस्थान समाचार