Enter your Email Address to subscribe to our newsletters

कानपुरम्, ०९ नवम्बरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य कानपुरजनपदे भारतीयजनतापक्षः भगवतः बिरसामुण्डस्य 150 तमां जयंतींसर्वत्र उत्सवस्वरूपेण आचरिष्यति। अस्मिन् अवसरे प्रति आयुक्त्यस्तरे जनजातिस्वाभिमानसम्मेलनानि आयोजयिष्यन्ते। एतत् सूचनां कानपुर–बुण्डेलखण्डक्षेत्रस्य क्षेत्रीयाध्यक्षः प्रकाशपालः रविवासरे दत्तवान्।
क्षेत्रीयाध्यक्षः प्रकाशपालः उक्तवान् — “भगवान् बिरसामुण्डः केवलं जनजातिसमाजस्य एव नायकः न आसीत्, अपितु सः राष्ट्रनायकः आसीत्। तस्य बलिदानेन संघर्षेण च देशस्य स्वातन्त्र्ययुद्धे जनजातिसमाजं जागरयितुं सः प्रयत्नवान्।अतः भारतीयजनतापक्षः तस्य विचारान् जनजनान्तं प्रापयिष्यति।” तथा क्षेत्रीयाध्यक्षः अवदत् — “अस्मिन् अवसरे पक्षद्वारा प्रतिप्रत्येकजनपदे जनजातिस्मारकानां शौच्यकार्यक्रमः (स्वच्छतायोजनम्) चालयिष्यते।स्मारकस्थलेषु दीपोत्सवकार्यक्रमे अन्तर्गते दीपप्रज्वलनं पुष्पाञ्जलिश्च अर्पयिष्यते, येन भगवतः बिरसामुण्डस्य प्रति श्रद्धाभावः सम्मानभावश्च जनमानसे प्रकाशेत्।”
क्षेत्रीयमाध्यमप्रभारी अनूप-अवस्थी अवदत् —“कानपुर–बुण्डेलखण्डक्षेत्रतः अस्य अभियानस्य संचालनं क्षेत्रीयोपाध्यक्षेन अनिलयादवेनेवमहिलायोगस्य सदस्यया अनीतागुप्तया च संयोजनेन करिष्यते।” सः अपि उक्तवान् —“अभियानस्य उद्देश्यं अस्ति यत् समाजस्य अन्त्यपुरुषपर्यन्तं भगवान् बिरसामुण्डस्य जीवनं,विचाराः, संघर्षः च प्रेरणारूपेण प्रापयितुं।” माध्यमप्रभारी अवदत् — “भारतीयजनतापक्षस्य एषः आयोजनः केवलं श्रद्धाञ्जलिरूपेण न भविष्यति,अपितु ‘सबकासाथ, सबकाविकास, सबकाविश्वास’ इति मन्त्रं सुदृढीकर्तुं समर्थः जनजागरणकार्यक्रमः अपि भविष्यति।”
हिन्दुस्थान समाचार / Dheeraj Maithani