मुख्यमंत्रिणा डॉ. यादवेन समाजसुधारकः डॉ. धोंडो केशव कर्वे इत्यस्य पुण्यतिथौ श्रद्धांजलिः अर्पिता
भाेपालम्, 9 नवंबरमासः (हि.स.)। समाजसुधारकः शिक्षाविद् च डॉ. धोंडो केशव कर्वे इत्यस्य अद्य रविवासरे पुण्यतिथिः अस्ति। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहन यादवेन तं स्मृत्वा विनम्रां श्रद्धांजलिः अर्पिता। मुख्यमंत्री डॉ. यादवेन सोशल्-मीडियायाः एक्स्
मुख्यमंत्री डॉ. यादव ने समाज सुधारक डॉ. धोंडो केशव कर्वे की पुण्यतिथि पर श्रद्धांजलि अर्पित की


भाेपालम्, 9 नवंबरमासः (हि.स.)। समाजसुधारकः शिक्षाविद् च डॉ. धोंडो केशव कर्वे इत्यस्य अद्य रविवासरे पुण्यतिथिः अस्ति। अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहन यादवेन तं स्मृत्वा विनम्रां श्रद्धांजलिः अर्पिता।

मुख्यमंत्री डॉ. यादवेन सोशल्-मीडियायाः एक्स् इत्यस्मिन् माध्यमे पोष्टं कृत्वा शिक्षाविदं डॉ. धोंडो केशव कर्वे इत्यस्मै पुण्यतिथौ नमस्कृत्य लिखितवान् — “समाजसुधारकं शिक्षाविदं भारतरत्नं डॉ. धोंडो केशवकर्वे इत्यस्मै पुण्यतिथौ सादरां श्रद्धांजलिम् अर्पयामि। महिला-शिक्षायाम् विधवा-विवाहे च समाजसेवायां च तेन कृतं महत्त्वपूर्णं योगदानं दत्तम्। अतः तस्मै ‘महर्षिः कर्वे’ इति संबोधनं प्रदत्तम्। दुर्बलवर्गोन्नयनाय तस्य प्रयत्नाः सर्वदा स्मरणीयाः भविष्यन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता