हिमाचलप्रदेशे एच.पी.-शिवा-योजनायाः वसन्तः — सरकाघाटप्रदेशस्य गध्यानी-क्लस्टरेण नूतना सफलता-कथा लिखिता
मंडी, 09 नवंबरमासः (हि.स.)। हिमाचलप्रदेशे बागवानीकर्म केवलं कृषिकर्मपर्यन्तं न सीमितं, अपि तु ग्राम्यसमृद्धेः आर्थिकविकासस्य च सशक्तं साधनं जातम्। मुख्यमन्त्रिणः ठाकुरसुखविन्द्रसिंहसुक्खु-नेतृत्वे राज्यसरकारा बागवानीक्षेत्रं नूतनशिखराणि प्रति नयनार
गध्यानी क्लस्टर अमरूद की खेती किसानों के लिए लाभदायक।


मंडी, 09 नवंबरमासः (हि.स.)। हिमाचलप्रदेशे बागवानीकर्म केवलं कृषिकर्मपर्यन्तं न सीमितं, अपि तु ग्राम्यसमृद्धेः आर्थिकविकासस्य च सशक्तं साधनं जातम्। मुख्यमन्त्रिणः ठाकुरसुखविन्द्रसिंहसुक्खु-नेतृत्वे राज्यसरकारा बागवानीक्षेत्रं नूतनशिखराणि प्रति नयनार्थं दृढं प्रयत्नं करोति, यस्य शुभफलानि अद्य भूमौ दृष्टिगोचराणि भवन्ति। सरकारायाः महत्त्वाकांक्षिणी “एच्‌पी-शिवा-परियोजना” अस्मिन् कार्ये सहायिका जाता, यस्याः अन्तर्गते वित्तीयवर्षे २०२५–२६ मध्ये शतकोट्यधिकं रूप्यकविनियोगः निर्दिष्टः अस्ति।

मण्डीजनपदस्य सरकाघाट-उपमण्डलस्थितं गध्यानीक्लस्टरम् अद्य एच्‌पी-शिवा-परियोजनायाः सफलतायाः उत्कृष्टं उदाहरणं जातम्। एषः क्लस्टरः बागवानीद्वारा कृषकानां भाग्यपरिवर्तनकथां वर्णयति। सम्प्रति, लगभग १.२ हेक्टेयर्‌-भूमौ स्थापिते अस्मिन् बागे उन्नतप्रकारस्य अम्रूतफलस्य (अमरूदस्य) फसलः सुसम्पन्ना दृश्यते। अत्र ‘स्वेता’ तथा ‘ललित’ इति द्वे जात्यौ अम्रूतस्य प्रायः १२०० पौधाः त्रिवर्षपूर्वं रोपिताः आसन्। क्लस्टरेण सम्बद्धाः सप्त लाभार्थिकृषकाः अद्य स्वउत्पन्नं विपणिं प्रति प्रेषयितुं सज्जाः सन्ति। परियोजनासम्बद्धाः कृषकाः स्वायां वृद्ध्यां सन्तोषं प्रकटयन्ति।

लाभार्थी हेमराजः उक्तवान् यत् गतवर्षे सः षष्टिः–सप्ततिसहस्ररूप्यकपर्यन्तं लाभं प्राप्तवान्, किन्तु अस्मिन् वर्षे अम्रूतस्य मूल्यं विपणौ प्रति किलोग्रामं ६५–७० रूप्यकपर्यन्तं वर्तते। तेन उक्तं यत् अस्य वर्षस्य आयः एकलक्षात् डेढ़लक्षपर्यन्तं भविष्यति इति तस्य दृढा अपेक्षा। अन्यलाभार्थी मनोहरलालस्य वचनं यत् एषा अम्रूतजातिः अतीव उत्तमा मधुरा च, अतः तस्मै विपणौ उत्तममूल्यं प्राप्तं भविष्यति इति विश्वासः। जनाः अपि स्वयमेव बागे आगत्य अम्रूतं क्रयन्ति।

लाभार्थिनी मीरा देवी उक्तवती यत् पूर्वं सा पारम्परिककृषौ प्रवृत्ता आसीत्। तया उत्पादिता फसला न लाभदायिनी आसीत्। जङ्गलीपशवः वानराश्च फसलान् नाशयन्ति स्म। किन्तु परियोजनायाः अन्तर्गते सौरबाडबन्दीप्रणालेन एषा समस्या परिहृता। तस्मिन् सह उन्नतवर्गीयाः पौधाः उत्तमफलोत्पादनं ददति।

विषयविशेषज्ञः सरकाघाटप्रदेशीयः डॉ० अनिलठाकुरः उक्तवान् यत् शिवा-परियोजनायाः अन्तर्गते गोपालपुरक्षेत्रे दश प्रथमपङ्क्तिदर्शनीयबागाः स्थापिता भवन्ति, त्रीश्च क्लस्टराः विकासमानाः सन्ति। एषु कतिपये क्लस्टरेषु अस्मिन् वर्षे पौधारोपणं सम्पन्नं, अवशिष्टेषु च कार्यम् अस्मिन् एव वित्तीयवर्षे सम्पाद्यते। एषु क्लस्टरेषु मौसम्बी-अमरूद-लीचीफलानां उन्नतकृषिः प्रोत्साह्यते। अद्यापि पञ्चाशद्‌हेक्टेयर्‌-भूमिः बागवानीक्षेत्रे सम्मिलिता, शतपञ्चाशद्‌हेक्टेयरपर्यन्तं क्षेत्रं अस्मिन् एव वर्षे सम्मिलितुं लक्ष्यीकृतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता