Enter your Email Address to subscribe to our newsletters

मण्डी, ०९ नवम्बरमासः (हि.स.)। लघु-काशी मण्ड्यां ब्यासनद्याः तटे स्थिते योगसिद्धाश्रमे श्रीमद्भागवतसाप्ताहिककथामहोत्सवः अत्युत्साहेन समारभ्यते। मण्डी-नगरे प्रसिद्धा कवयित्री लोकगायिका च रूपेश्वरीशर्मा इत्यस्याः प्रबन्धनेन आयोजितस्य अस्य पावनस्य श्रीमद्भागवतकथामहोत्सवस्य पठनं ख्यातकथावाचकाचार्यपण्डितयोगेशशर्मस्य मुखारविन्दोः प्रवर्तते।
कथायाः चतुर्थदिवसेभगवतः प्राकट्योत्सवसमये भगवतः बाललीलानां वर्णनं कृतम्।
आचार्यपण्डितयोगेशशर्मा अवदत्— “श्रीमद्भागवतम् एव भगवान् श्रीकृष्णस्य स्वरूपं अस्ति। भक्ति–ज्ञान–वैराग्यस्थापनार्थं प्र स्वयमेव परमात्मा अस्मिन् वाङ्मयस्वरूपे प्रकटितवान्। एषः भगवानः वाङ्मयस्स्वरूपः इति। संपूर्णवेदशास्त्रसारं सर्वस्वं च श्रीमद्भागवतं इति। अस्याः कथायाः फलं सत्सङ्गरूपेण प्राप्यते, यत् मानुषजीवनस्य परमं लाभं मन्यते।” सः उच्चैः व्यासपीठात् सर्वेषां सनातनधर्मावलम्बिनां कल्याणाय प्रार्थनां अकुर्वन् — “सर्वेषां जनानां चित्तवृत्तिः परमात्मचरणयोः नित्यं लग्ना भवतु, तेन जीवनं सफलं भूयात्।” सप्ताहपर्यन्तं प्रवर्तमाने अस्मिन् पावने श्रीमद्भागवतकथामहोत्सवे श्रद्धालूनां समर्दः अपारतया समागता। आयोजनस्य सफलतायै रूपेश्वरीशर्मायाः परिवारजनाः, बान्धवाः, तस्याः कन्यके रश्मिशर्मा, सीमा च, जामाता च डॉ॰ अनिलशर्मा च सहयोगं कुर्वन्ति।
रूपेश्वरीशर्मा अवदत् यत् अस्य श्रीमद्भागवतकथामहोत्सवस्य समापनं मङ्गलवारदिनाङ्केन ११ नवम्बरतिथौ पूर्णाहुत्या सह भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता