Enter your Email Address to subscribe to our newsletters

रायपुरम्, 1 दिसंबरमासः (हि.स.)।
छत्तीसगढराज्ये एकजनवरी द्विसहस्र षड्विंशत्यधिकवर्षस्य मतदातृसूचीनां विशेषगहनपुनरीक्षणस्य एसआईआर कार्यं चतुर्थे नवम्बर् द्विसहस्र पञ्चविंशत्यधिकवर्षात् आरभ्य अत्यन्तगाम्भीर्येण पारदर्शितया च प्रवर्तते। बीएलओ इत्याख्यातैः कर्मकर्तृभिः सर्वत्र छत्तीसगढप्रदेशे गृहात् गृहं गत्वा पंजीकृतमतदातृणां गणनापत्राणां संग्रहणं डिजिटाइजेशन च शीघ्रं प्रगतिं प्राप्नोति।
छत्तीसगढनिर्वाचनआयोगात् प्राप्तसूचनां अनुसारं प्रदेशे त्रिंशद् नवम्बरपर्यन्तं लगभग एककोटि द्विनवतिः लाखाधिकानां गणनापत्राणां डिजिटाइजेशन कार्यं सम्पन्नं जातम्, यत् समग्रं द्विकोटि द्वादशलक्ष त्रिंशत्सहस्र सप्तत्रिंशत् पंजीकृतमतदातॄणां प्रायः एकनवत्येकं प्रतिशतं भवति।
हिन्दुस्थान समाचार