ब्रिगेड इत्यत्र सामूहिक गीता पाठात् पूर्वं कोलकातायां कलश यात्रा भूमि पूजनं च
कोलकाता, 01 दिसम्बरमासः(हि.स.)।आगामि सप्तमे दिसंबरदिने ब्रिगेड् परेडक्रीडांगणम् अभिप्रेत्य पञ्चलक्षजनानां सामूहिकगीता–पाठकार्यक्रमात् पूर्वं सोमवासरे कोलकातानगरे कलशयात्रा निष्क्रान्ता भूमिपूजनं च सम्पन्नम्। अस्य आयोजनस्य तैयार्यः बहुवासरपर्यन्तं न
कलश यात्रा


कोलकाता, 01 दिसम्बरमासः(हि.स.)।आगामि सप्तमे दिसंबरदिने ब्रिगेड् परेडक्रीडांगणम् अभिप्रेत्य पञ्चलक्षजनानां सामूहिकगीता–पाठकार्यक्रमात् पूर्वं सोमवासरे कोलकातानगरे कलशयात्रा निष्क्रान्ता भूमिपूजनं च सम्पन्नम्। अस्य आयोजनस्य तैयार्यः बहुवासरपर्यन्तं निरन्तरं प्रवृत्ताः।

प्रातः दही घाट इत्यस्य स्थलात् सुमारे सहस्रजनाः कलशान् आदाय भव्ययात्रां प्रस्थितवन्तः। यात्रायां सम्मिलिताः साधवः भक्ताः स्वयंसेवकाः च मन्त्रॊच्चारैः सह ब्रिगेड्–मण्डलस्य दिशि प्रस्थिताः। तदनन्तरं मण्डपनिर्माणात् पूर्वं भूमिपूजनं विधिवत् सम्पन्नम्। अस्य समग्रस्य आयोजनस्य नेतृत्वं स्वामी प्रदीप्तानन्दः स्वामी निर्गुणानन्दः स्वामी बन्धुगौरवानन्दः स्वामी सर्वानन्दः च कुर्वन्ति।

एषः कार्यक्रमः भारतस्य सर्वातिभव्यः गीता–पाठः इति मन्यते। पूर्वं नवद्वीप कोलकाता सिलिगुड़ी इत्यादिषु आयोजितानां गीता–यज्ञानां सफलतानन्तरं अस्मिन् ब्रिगेड्–क्षेत्रे महत् आयोजनं समायोज्यते। आयोजकानां वक्तव्येन असम त्रिपुरा दिल्ली इत्यादि प्रदेशेभ्यः साधुसन्तानां आगमनस्य सम्भावना अस्ति; नेपाल बाङ्ग्लादेश देशाभ्यः अपि केचन सन्तः आगन्तुं शक्नुवन्ति।

तेषां अनुसारम् अस्य आयोजनस्य राजनीति–विषये कश्चित् सम्बन्धः नास्ति; एकमेव लक्ष्यं—जनसामान्यस्य मध्ये सनातनधर्मस्य मूलभावनां प्रेषयितुम्। कार्यक्रमानुमत्याः सर्वाः प्रक्रियाः लगभग पूर्णाः भवन्ति। आयोजकाः पञ्चलक्षसंख्यायाः गीता–ग्रन्थानां बाङ्ग्ला तथा हिन्दीभाषयोः वितरणायापि सज्जां कुर्वन्ति।

हिन्दुस्थान समाचार