Enter your Email Address to subscribe to our newsletters

दक्षिण 24 परगना, 1 दिसंबरमासः (हि.स.)।
तृणमूलकांग्रेसस्य सांसदः अभिषेक बनर्जी सोमवासरे एक्स इत्याख्यातेन माध्यमेन सेवाश्रय द्वितीयस्य आरम्भं घोषितवान्। स्वस्य पोस्टे सः लिखति— जनसेवायाः उपरि अन्यत् कर्तव्यम् नास्ति इति भावना अस्य कार्यक्रमस्य मूलं, अतः अस्य वारं कार्यक्रमः अधिकविस्तृतरूपेण प्रवर्त्यते।
अभिषेक बनर्जी अवदत् यत् सेवाश्रय द्वितीयः डायमण्ड हार्बर क्षेत्रे जनानां स्वास्थ्यस्य गौरवस्य च संरक्षणाय समर्पितः। अस्य वारं एषा पहल् क्षेत्रस्य सर्वेषु सप्तसु विधानसभा क्षेत्रेषु आयोजितव्या। कार्यक्रमः २२ जनवरी २०२६ पर्यन्तं निरन्तरं चलेत्। तदनन्तरं २४ तः २८ जनवरी २०२६ पर्यन्तं मेगा–शिविराणि आयोजितानि भविष्यन्ति।
अस्य कार्यक्रमस्य अन्तर्गतं १६५ सामान्यशिविराणां ८ आदर्शशिविराणां च आयोजनस्य योजना कृतम्। सर्वेषां शिविराणां लक्ष्यं यत् उत्तमगुणयुक्ताः स्वास्थ्यसेवाः प्रत्यक्षतया सामान्यजनस्य समीपं नीयन्ताम्।
सेवाश्रय द्वितीयस्य मुख्यसेवाः—
सर्वेषां कृते नि:शुल्क स्वास्थ्यशिविराणि,
आवश्यकौषधीनां नि:शुल्कवितरणम्,
मुक्तचश्मानां हियरिङ् एड् उपकरणानां च दानम्,
तत्क्षणमेव स्थले एव निदानप्रकरणानि,
विशिष्टोपचारार्थं उन्नतरेफरल् सेवाः,
एकव्यक्ति–पंजीकरणम्,
पूर्णपारदर्शितायै वास्तविकसमयसमीक्षणम् (रियल–टाइम डिजिटल मॉनिटरिंग) इत्यादयः।
स्वस्य पोस्टे अभिषेक बनर्जी विश्वासं व्यक्तवान् यत् यथा पूर्वं तथैव अस्य वारं अपि एषा जनकेन्द्रिता पहल् अत्यन्तं सफलतां प्राप्स्यति तथा जनसेवायाः इतिहासे महत्वपूर्णम् अध्यायम् इति रूपेण निबद्धा भविष्यति।
---------------
हिन्दुस्थान समाचार