दक्षिण पूर्व रेलवे चार्लापल्ली–शालीमारविशिष्टरेलयानानां परिचालनावधिः वर्धितः
खड़गपुरम्, 01 दिसंबरमासः (हि.स.)। दक्षिणपूर्वरेल्वेविभागो यात्रिणां सुविधां दृष्ट्वा चार्लापल्ली शालीमार विशेषरेखायानयोः परिचालनकालस्य विस्तारं कर्तुं निर्णयं कृतवान्। रेल्वेप्रशासनस्य कथनुसारं उभयदिशासु गन्तारौ उभे विशेषरेखायाने मार्च् द्विसहस्र
रेलवे समय सारणी परिवर्तन


खड़गपुरम्, 01 दिसंबरमासः (हि.स.)।

दक्षिणपूर्वरेल्वेविभागो यात्रिणां सुविधां दृष्ट्वा चार्लापल्ली शालीमार विशेषरेखायानयोः परिचालनकालस्य विस्तारं कर्तुं निर्णयं कृतवान्। रेल्वेप्रशासनस्य कथनुसारं उभयदिशासु गन्तारौ उभे विशेषरेखायाने मार्च् द्विसहस्र षड्विंशतिवर्षपर्यन्तं संचरिष्यतः।

सोमवासरस्य प्रातःकाले प्रसारीकृतायां रेल्वे–विज्ञप्तौ निर्दिष्टम्—

रेखायणक्रमांकः ०७२२५ — चार्लापल्ली शालीमार विशेषः

परिचालनकालः— ०१ दिसंबर् २०२५ तः ३० मार्च् २०२६ पर्यन्तम्

प्रस्थानसमयः— प्रातः ०४.३० वादनम्

शालीमार आगमनसमयः— परदिने प्रातः ०६.५० वादनम्

रेखायणक्रमांकः ०७२২৬ — शालीमार चार्लापल्ली विशेषः

परिचालनकालः— ०२ दिसंबर् २०२५ तः ३१ मार्च् २०२६ पर्यन्तम्

प्रस्थानसमयः— प्रातः १०.०० वादनम्

चार्लापल्ली आगमनसमयः— परदिने १३.०० वादनम्

उभययोः रेखायानयोः ठहरणं दक्षिणपूर्वरेल्वेक्षेत्राधिकारस्थेषु सांतरागाछी खड़गपुर बालेश्वर इत्येषु स्थानकेषु भविष्यति।

रेल्वेविभागः अवदत् यत् एतेषां विशेषरेखायानानां विस्तारितपरिचालनं आगामिमासेषु वर्धमानां यात्रीआवश्यकतानां पूर्तौ सहायकं भविष्यति।

---------------

हिन्दुस्थान समाचार