Enter your Email Address to subscribe to our newsletters



गाेरखपुरे जनता दर्शने मुख्यमंत्री योगी अशृणोत् 200 जनसमस्याम्
गोरखपुरम्, 10 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य गोरखपुरे मंगलवासरे आगतः मुख्यमन्त्री योगी आदित्यनाथः गोरखनाथमन्दिरे रात्रिप्रवासं कृत्वा बुधवासरप्रातः जनता दर्शनम् उपस्थित्य जनानां समस्याः श्रुतवान्। समस्याः निवेदयन्तैः जनैः सह सः आत्मीयतया संवाद्य अवदत्—“मा विमृष्यत, प्रत्येकं समस्यायाः प्रभावीसमाधानं कारयिष्यामः।”
जनतादर्शनस्य समये मुख्यमन्त्रिणा समीपवर्तिभ्यः अधिकारिभ्यः निर्देशाः दत्ताः यत् प्रत्येकपीडितस्य समस्या संवेदनशीलतया अवलोकनीया तथा तस्याः समयबद्धं गुणवत्तायुक्तं पारदर्शकं च निराकरणं कर्तव्यम्।
गोरखनाथमन्दिरपरिसरे महन्तदिग्विजयनाथस्मृतिभवनसभागारे आयोजिते जनतादर्शने मुख्यमन्त्रिणा सुमारे द्विशतं जनानां समस्याः श्रुताः, तासां समाधानाय अधिकारीणः आदेशिताः। जनसमूहस्य मध्ये स्त्रीणां संख्या अधिका आसीत्। उपविशद्भ्यः जनानां समीपं स्वयमेव सः गतः, “कुतः आगताः? किं विषयः?” इति पृच्छन् क्रमशः सर्वेषां समस्याः श्रुतवान्। ते सर्वान् आश्वास्य अवदन् यत् सर्वासां समस्याः समाधानं निश्चितं भविष्यति, कस्यापि चिन्तां कर्तुं न आवश्यकम्।
प्रार्थनापत्राणि स्वहस्तेन स्वीकरोति स्म, तानि अधिकारीभ्यः दत्वा अवदत् यत् सर्वसमस्याः शीघ्रं गुणवत्तायुक्तं सन्तोषजनकं च निवारणं प्राप्नुयुः। भूमिकब्जनस्य कतिपयानां शिकायतिषु तेन कठोरां प्रशासनप्रक्रियाम् अदेशितवान्। एका स्त्रियाः गृहम् अग्निदग्धं जातम् इति निवेदितवत्याः प्रति दोषिनां विरुद्धं कार्यवाहीं करणीयाम् इति सः अधिकारीन् आज्ञापितवान्।
जनतादर्शने केचन जनाः गभीररोगोपचाराय आर्थिकसहाय्यां याचन्तः आगताः। मुख्यमन्त्रिणा तेषु उक्तं—“उपचाराय धनाभावः बाधकः न भविष्यति, सर्वकारः पर्याप्ताम् आर्थिकसहाय्यां दास्यति।” अधिकारीणः प्रति तेन निर्देशः दत्तः यत् चिकित्सायाः अस्पतालअनुमानपत्रप्रक्रिया शीघ्रं पूर्णीकृत्य शासनं प्रति प्रेषणीया। मुख्यमन्त्रिणः विवेकाधीनकोषात् उपचाराय पर्याप्ता राशि दास्यते।
गुडरोटिके दत्वा गोसेवा, मयूरस्य अपि स्नेहः
गोरखनाथमन्दिरे प्रवसन् बुधवासरप्रातः मुख्यमन्त्रिणः योगी आदित्यनाथस्य दिनचर्या परम्परागतैव आसीत्। गुरोः गोरखनाथस्य दर्शनपूजनं कृत्वा, स्वगुरोः ब्रह्मलीनमहन्तअवेद्यनाथस्य प्रतिमायाः पुरतः प्रणिपत्य, सः मन्दिरपरिसरस्य परिभ्रमणं कर्तुं निर्गतः। गोशालां प्राप्तः सन् गोसेवां कृतवान्—गवां गोवंशस्य च प्रति स्नेहभावेन गुडरोटिं दत्तवान्। गोशालायां मुख्यमन्त्रिणः आगमनसमये मयूराः अपि समीपम् आगच्छन्। मुख्यमन्त्रिणा मयूरो लालितः, स्वहस्ताभ्यां रोटिकापि दत्ता।
---------------
हिन्दुस्थान समाचार