मध्यप्रदेशे मुख्यमन्त्री डॉ० यादवेन सागरजनपदे जातायां मार्गदुर्घटनायां चतुर्णां सैनिकानां निधने शोकं व्यक्तवान्
भोपालम्, 10 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य सागरजनपदे राष्ट्रमार्गे 44 स्थिते मालथौन-बान्दरीमध्ये बुधवासरप्रातः जातायां मार्गदुर्घटनायां मुरैनास्थस्य बी.डी.एस.दले चत्वारः सैनिकानां निधनं जातम्, एकः सैनिकः आहतः चाभूत्। सर्वे सैनिकाः बालाघाटात् कर
मुख्यमंत्री डॉ. यादव ने सागर जिले में सड़क हादसे में 4 जवानों की मौत पर जताया दुख


भोपालम्, 10 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य सागरजनपदे राष्ट्रमार्गे 44 स्थिते मालथौन-बान्दरीमध्ये बुधवासरप्रातः जातायां मार्गदुर्घटनायां मुरैनास्थस्य बी.डी.एस.दले चत्वारः सैनिकानां निधनं जातम्, एकः सैनिकः आहतः चाभूत्। सर्वे सैनिकाः बालाघाटात् कर्तव्यनिर्वहणान् प्रत्यागच्छन्तः आसन्। दुर्घटना प्रातःकाले प्रायः 4:00 वादने जाता। आहतः सैनिकाः चिकित्सार्थं चिकित्सालये प्रेशितः। मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहनयादवेन दुर्घटनायां व्यक्तं दुःखम्। सः दिवंगत-सैनिकानां प्रति श्रद्धाञ्जलिम् अर्पयामास, आहतस्य च शीघ्रं स्वास्थ्यलाभं प्रार्थितवान्।

मुख्यमन्त्री डॉ० यादवः बुधवासरप्रातः सामाजिकमाध्यमे ‘एक्स्’ इति पोस्ट् कृत्वा स्वशोकसन्देशे लिखति— “अद्य सागरजनपदे प्रातः नक्सलविरोधि-अभियानाद् कर्तव्यं कृत्वा प्रत्यागच्छन्तः चत्वारः आरक्षकर्मिणः भीषणायां मार्गदुर्घटनायां निधनं प्राप्तवन्तः इति समाचारः हृदयविदारकः। दुर्घटनायां दिवंगत-आरक्षककर्मिभ्यः विनम्रां श्रद्धाञ्जलिम् अर्पयामि। मम संवेदनाः शोकाकुलपरिजनेषु सन्ति। ईश्वरं प्रार्थे यत् दिवंगतानाम् आत्मनां शान्तिर्भवतु, आहतः आरक्षककर्मी च शीघ्रं स्वास्थ्यं प्राप्नुयात्।”

ज्ञातव्यं यत् एते बम-एण्ड्-डॉग्-स्क्वाड्-इत्यस्य दलस्य सैनिकाः आसन्, ये बालाघाटे सुरक्षा-परीक्षणहेतोः नियोजिताः आसन्। कर्तव्यसमाप्तेः अनन्तरं ते प्रत्यागच्छन्तः आसन्। तस्मिन्नेव समये तेषां वाहनस्य ट्रक्-सहितं मुखत: घातः अभवत्। अस्मिन् दुर्घटनायां वाहनस्य अग्रभागः अतिविदारितः अभवत् एवं चतुर्णां सैनिकानां घटनास्थले एव निधनं जातम् |

हिन्दुस्थान समाचार / अंशु गुप्ता