Enter your Email Address to subscribe to our newsletters

पिथौरागढ़म्, 10 दिसंबरमासः (हि.स.)।
सैनिककल्याणमन्त्री गणेशजोशी बुधवासरे पिथौरागढे पूर्वसैनिकोद्धेशेन स्थापितेन पिथौरागढपूर्वसैनिकसङ्घस्य सदस्यैः सह साक्षात्करणं कृतवान्। तस्मिन् समये मन्त्रिणा सङ्घस्य कार्याणां सराहना कृता। तेनेदम् अपि उक्तं यत् राज्यसरकारा सैनिकानां तेषां परिवाराणां च कल्याणाय निरन्तरं कार्यं करोति।
मन्त्री जोशी अवदत् यत् हल्द्वान्याम् बलिदानीसैनिकानाम् आश्रितानां तेषां च पुत्रपुत्रीणां कृते शीघ्रमेव आधुनिकछात्रालयस्य निर्माणं करिष्यते, यस्य नाम जनरल् बिपिन् चन्द्र जोशी इति भविष्यति। अस्य अतिरिक्तं तेनेदं अपि घोषयत् यत् पूर्वसैनिकानां कृते मिलनकेन्द्रम् अपि स्थापितं भविष्यति, येन जिल्लायाः पूर्वसैनिकानां एकत्रागमनम् परस्परसंवादवृद्धिश्च सुलभा भविष्यति।
अस्मिन् अवसरे अध्यक्षः मयूखभट्टः, एस् डी एम् मन्जीत्सिंहः, जिला सैनिककल्याणाधिकारी के एस बिष्टः, क्याप्टन् सुरेन्द्रसिंहः, अर्जुनपुरस्कारप्राप्ताः च अन्ये बहवः पूर्वसैनिकाः उपस्थिताः आसन्।---------------
हिन्दुस्थान समाचार