Enter your Email Address to subscribe to our newsletters

भोपालम्, 10 दिसम्बरमासः (हि.स.)। पूर्ववर्षस्य इव अस्मिन् वर्षेऽपि अद्य (दशमी डिसेम्बर-मासस्य) अन्ताराष्ट्रीय-मानव-अधिकार-दिवसः आचर्यते। अस्मिन् अवसरे प्रदेशस्य सर्वेषु सर्वकारीय-कार्यालयेषु शपथ-ग्रहणं कर्तव्यं भविष्यति। सर्वे अधिकारीणः, कर्मकराश्च स्व-कार्यालयेषु समवेत्य शपथं ग्रहीष्यन्ति।
उपजिलाधिकारिणा सचिन-जैन-नाम्ना उक्तम् यत् शपथ-प्रारूपानुसारं अधिकारीणः, कर्मकराश्च वदिष्यन्ति— “अहं सत्यनिष्ठया प्रतिजाने, यत् अहं भारत-सम्विधानस्य प्रति सत्यां आस्थां निष्ठां च धारयिष्यामि। अहं मानव-अधिकाराणां संरक्षण-संवर्धनयोः कृते सर्वाणि स्व-कर्त्तव्यानि पालनं करिष्यामि। निःशेषं भेदभावं विना सर्वेषां जनानां मानव-अधिकाराणां सम्मानं समर्थनं च करिष्यामि। अहं प्रत्यक्षतया परोक्षतया वा विचारैः, शब्दैः, कर्मभिः वा अन्येषां मानव-अधिकाराणां हननं न करिष्यामि”— इति। इत्यनेन प्रकारेण शपथ-ग्रहणं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता