Enter your Email Address to subscribe to our newsletters

कोरबा, 10 दिसंबरमासः (हि. स.)।प्रदेशस्य उद्योगमन्त्री लखनलालदेवाङ्गनः गुरुवासरे द्वादशदिने ऑक्सी जोन इत्यस्य लोकार्पणं करिष्यति। तेन सह डोर टू डोर गार्बेज कलेक्शन अर्थं असीति संख्यक ई रिक्शा इत्यस्य वितरणं अपि करिष्यते। गुरुवासरे नगरपालिकानिगमकोरबा भण्डारगृहे अपराह्णे त्रितिये वा ई रिक्शा वितरणकार्यक्रमः आयोजितः भविष्यति।
एवमेव उद्योगमन्त्री श्रीदेवाङ्गनः पौडीबहार उद्याने आयोजिते अस्मिन् कार्यक्रमे एकोनविंशतिलक्षस्य व्ययेन कक्षे करणीयानां विविधविकासकार्यानां भूमिपूजनम् अपि करिष्यति। कार्यक्रमस्य अध्यक्षता महापौर संजूदेवीराजपूतेन भविष्यति तथा सभापतिः नूतनसिंहठाकुरः अन्ये जनप्रतिनिधयः च विशिष्टातिथिरूपेण स्वामूल्यसन्निधिं दास्यन्ति।
---------------
हिन्दुस्थान समाचार