अधुना कुपोषणं निवारयिष्यति लौहयुक्तः शिटाके मशरूमः
पन्तनगरम्, 10 दिसम्बरमासः (हि.स.)। उत्तराखण्डस्य जी.बी. पन्त-कृषि-प्रौद्योगिकीविश्वविद्यालयस्य वैज्ञानिकैः आयरन-नैनोकणैः शिटाके-अलम्बु बायो-फोर्टिफिकेशनम् कृत्वा 35 प्रतिशताधिक-लौहयुक्तः शिटाके-अलम्बुः निर्मितः इति अत्यन्तं महत्त्वपूर्णा सिद्धिः प्
Masrum


पन्तनगरम्, 10 दिसम्बरमासः (हि.स.)। उत्तराखण्डस्य जी.बी. पन्त-कृषि-प्रौद्योगिकीविश्वविद्यालयस्य वैज्ञानिकैः आयरन-नैनोकणैः शिटाके-अलम्बु बायो-फोर्टिफिकेशनम् कृत्वा 35 प्रतिशताधिक-लौहयुक्तः शिटाके-अलम्बुः निर्मितः इति अत्यन्तं महत्त्वपूर्णा सिद्धिः प्राप्ता। अस्य नैनो-तन्त्रज्ञानस्य साहाय्येन अलम्बोत्तकेषु लौहतत्वस्य अवशोषणम्, सञ्चालनम्, जैव-उपलब्धता च अत्यधिकं वर्धते। वैज्ञानिकैः अस्याः तन्त्रिकाया: पेटेन्ट् अपि अभिलिखितम्।

सी.बी.एस्.एच्. महाविद्यालयस्य पूर्व-अधिष्ठाता वैज्ञानिकश्च डॉ. सन्दीप-अरोडाः भेंटवार्तायां अवदत्— शिटाके-अलम्बुः विश्वस्य अतीव मूल्यवान् खाद्य-औषधीयश्च कवकः अस्ति। पूर्व-एशियायाः वनेषु, विशेषतः जापान-चीनयोः, उत्पन्नस्य अस्य अलम्बोः कृषिः प्रायः सहस्रवर्षप्राचीना अस्ति। तदा एषः परम्परागतया ओक्-काष्ठेषु उत्पादितः, स्वास्थ्यलाभहेतोः ‘जीवनामृत’ इति प्रसिद्धः चासीत्। भारतादयः राष्ट्राः तु तान्त्रिक-नवोन्मेषैः मूल्य-वर्धननीतिभिः च अस्य उत्पादनस्य विस्तारं कुर्वन्ति। अद्य तु शिटाके-अलम्बुः विश्वस्य द्वितीयः सर्वाधिक-उत्पादितः अलम्बुः अस्ति, यः केवलं समृद्धस्वादेन एव न, अपि तु उच्च-पोषणमूल्येनापि प्रसिद्धः।

यथा वैश्विक-खाद्य-व्यवस्था परिवर्तते, तथा नैनो-बायोफोर्टिफाइड्-अलम्बवः लौह-कमीसमस्यां प्रति स्थायी, सुगम एवं अधिक-प्रभावी उपायाः भवितुमर्हन्ति। यः शिटाके-अलम्बुः प्राचीना परम्परासु पूजनीयः आसीत्, स एव अद्य ‘गुप्त-भूख’ (हिडन हन्गर) इत्यस्य विरुद्धं आधुनिकम् अस्त्रं रूपेण प्रादुर्भूतः। यत्र विज्ञानम्, पोषणम्, नवोन्मेषश्च एकस्मिन् एव पात्रे मिलन्ति, स एव अस्यस्य महिमानं सूचयति।

हिन्दुस्थान समाचार / अंशु गुप्ता