वसईंइरस्य सर्वांगीण विकासाय कार्यं कर्तुं मदीया प्रतिबद्धता निरंतरम् : स्नेहा दुबे-पंडित
-वसईविधायकस्य ''कार्यप्रतिवेदनं 2024-25'' मुख्यमंत्रिणा विमोचितम् मुंबई, 10 दिसंबरमासः, (हि. स.)।वसईविधानसभाक्षेत्रस्य विधायिकायाः स्नेहादुबे पण्डितस्य शपथग्रहणस्य प्रथमवर्षपूर्णत्वस्य अवसरे गतवर्षे वसईनिर्वाचनक्षेत्रस्य विकासप्रगत्योः कृते कृ
वर्क रिपोर्ट का विमोचन करते सीएम।


-वसईविधायकस्य 'कार्यप्रतिवेदनं 2024-25' मुख्यमंत्रिणा विमोचितम्

मुंबई, 10 दिसंबरमासः, (हि. स.)।वसईविधानसभाक्षेत्रस्य विधायिकायाः स्नेहादुबे पण्डितस्य शपथग्रहणस्य प्रथमवर्षपूर्णत्वस्य अवसरे गतवर्षे वसईनिर्वाचनक्षेत्रस्य विकासप्रगत्योः कृते कृतानां कार्याणां विवरणयुक्ता कार्यप्रतिवेदनं २०२४ २५ नामकं नागपुरे प्रकाशितम्। एतत् कार्यप्रतिवेदनं मुख्यमन्त्रिणा देवेंद्रफडणवीसिना स्वहस्तेन विमोचिता, तथा महाराष्ट्रविधानसभाध्यक्षाय राहुलनार्वेकराय अपि समर्पिता।

अस्यां कार्यप्रतिवेदने मूलभूतसंरचना स्वास्थ्य शिक्षा महिला बालकल्याणम् सार्वजनिकसेवाः सुरक्षा नागरिकैः सह निरन्तरसंवादः इत्येषु क्षेत्रेषु कृताः महत्वपूर्णाः पहलाः समाविष्टाः। गतवर्षे सम्पन्नानां कार्याणां पारदर्शकं विवरणम् अस्यां रिपोर्टे निरूपितम्।

अस्मिन् अवसरे विधायिका स्नेहादुबे पण्डित वसईनगरवासिनां सर्वेषां च शासकीयतन्त्राणां प्रति आभारं प्रकटितवती। सा अवदत्—“वसईक्षेत्रस्य सर्वाङ्गीणविकासाय पारदर्शकरीत्या उत्तरदायीभावेन प्रभाविप्रकारेण कार्यं कर्तुं मम प्रतिबद्धता अविचलिता स्थास्यति।”

वसईक्षेत्रस्य समावेशीप्रगत्यै एतत् प्रतिवेदनम् एकं महत्वपूर्णं मीलपत्थर इति भविष्यति।

हिन्दुस्थान समाचार