Enter your Email Address to subscribe to our newsletters

—काशीहिंदूविश्विद्यालयस्य मालवीय भवने महामनाजयंत्यां सप्त दिवसीया श्रीमद् भागवत कथा
वाराणसी,10 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य बी एच यू इत्यस्य मालवीयभवने आयोजिते सप्तदिवसीये श्रीमद्भागवतकथायां बुधवासरेऽपि ज्ञानगङ्गायाः धारा प्रवहिता। बी एच यू संस्थापकस्य भारतरत्नस्य महामनस्य पण्डितमदन्मोहनमालवीयस्य जयन्त्युपलक्ष्ये पञ्चमदिनात् एकादशदिनं गुरुवासरपर्यन्तं प्रवर्तमाने अस्मिन् भागवतकथायां कथावाचकं डाक्टर पुण्डरीकशास्त्रिणं श्रोतुं भक्ताः बहुलं समायान्ति।
कथाप्रसङ्गे डाक्टर शास्त्री अवदन् यत् श्रीमद्भागवतं वैष्णवभक्तेः उद्गमग्रन्थः। श्रीमद्भागवते भक्तिज्ञानवैराग्याणां त्रिवेणी विद्यमाना। भागवतं वैष्णवानां परमः धर्मः, पुराणानां तिलकं, ज्ञानिनां चिन्तनम्, सन्तानां मननम्, भक्तानां वन्दनं, भारते हृदयस्पन्दनम्।
तेनेदं भाषितं यत् श्रीमद्भागवतकथाश्रवणं तस्मिन्नेव शक्यते यस्य जीवनसौभाग्यं सर्वोच्चशिखरम् आरूढम्। यस्य उपरि भगवतः अत्यन्तकृपा भवति स एव जीवः भागवतशरणं प्राप्नोति। भागवतं भगवतः स्वरूपमेव। श्रीमद्भागवतं तादृशं शास्त्रं यत्र गतदिवसस्य स्मृतिः, अद्यतनस्य बोधः, भविष्यस्य योजना च विद्यते।
भागवतं स्वस्वरूपपरिचयकं महाग्रन्थः। वेद्यव्यासेन भागवतस्य प्रत्येकपङ्क्तौ एवं रसो निहितः यत् आजीवनं पीत्वाऽपि तृप्तिर्न लभ्यते। अयं श्रीमद्भागवतग्रन्थः दशलक्षणैः परिपूर्णः, ये च द्वादशस्कन्धेषु विन्यस्ताः। अस्य संहितायां ३३५ अध्यायाः द्वादश स्कन्धाः अष्टादशसहस्रं श्लोकाः सन्ति।
भागवते आदौ ये द्वौ स्कन्धौ स्तः तयोः अधिकारीणां साधनस्य प्रक्रिया च निरूपिता। तृतीयस्कन्धात् सृष्टेः क्रमः आरभ्यते, द्वादशस्कन्धे आश्रयरूपनिर्णयः क्रियते।
एतत्पूर्वं कथायाः चतुर्थदिवसे भगवान्श्रीकृष्णस्य प्राकट्यस्य महोत्सवः आचरत। अस्मिन् महोत्सवे इदं प्रतिपादितम् यत् यः भगवान्जन्मोत्सवं आनन्देन आचरत् तस्य जीवनं नित्यं आनन्दमयं भवति। भगवान् आनन्दस्वरूपः तस्य कथा च आनन्दमयी एव। आनन्दस्वरूपपरमात्मनः निरूपणं श्रीमद्भागवतकथा एव।
आयोजनस्य संरक्षकः कुलपतिः प्राध्यापकः अजीतकुमारचतुर्वेदी च संयोजकः संकायप्रमुखः प्राध्यापकः राजारामशुक्लः अपि कथायां सहभागी भवतः। कथायां प्राध्यापकः धनञ्जयपाण्डेयः, प्राध्यापकः बृजबूषणओझा, प्राध्यापकः उपेन्द्रत्रिपाठी, प्राध्यापकः शैलेषतिवारी च सह मुमुक्षुभवनाश्रमात् दण्डिस्वामी अपि स्वामिनः उपस्थितिं
दर्शयन्ति।
---------------
हिन्दुस्थान समाचार