मुख्यमंत्री नीतीश कुमारो मानवाधिकार दिवसे प्रदेशवासिभ्योऽददात् शुभकामनाः
पटना, 10 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणा नीतिशकुमारेण मानवाधिकारदिवसस्य अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभकामनाः दत्ताः। स्वसन्देशे सः अवदत् यत् बिहारसरकारा न्यायेन सह विकासस्य मूलसिद्धान्तम् अनुसृत्य समाजस्य सर्ववर्गाणां समग्रविकासोत्थानयोः प
Nitish Kumar


पटना, 10 दिसंबरमासः (हि.स.)।

मुख्यमन्त्रिणा नीतिशकुमारेण मानवाधिकारदिवसस्य अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभकामनाः दत्ताः। स्वसन्देशे सः अवदत् यत् बिहारसरकारा न्यायेन सह विकासस्य मूलसिद्धान्तम् अनुसृत्य समाजस्य सर्ववर्गाणां समग्रविकासोत्थानयोः प्रति पूर्णतया संकल्पिता अस्ति।

तेनोक्तं यत् सर्वकारस्य परमलक्ष्यं समाजस्य अन्तिमपदानि स्थितस्य व्यक्तेः अधिकाररक्षणं तस्य च सर्वासु आवश्यक मूलभूत सुविधासु आश्वासनपूर्वकं उपलब्धिकरणम्।

मुख्यमन्त्रिणा एतदपि उल्लिखितम् यत् मानवाधिकाररक्षा तदा एव सम्भवति यदा समाजस्य प्रत्येकव्यक्ति सुरक्षितः सम्मानितः सशक्तः च अनुभूयते।

मुख्यमन्त्री नीतिशकुमारः प्रदेशवासिभ्यः आह्वानं कुर्वन् अवदत् यत् अस्मिन् अवसरि वयं सर्वे एतत् संकल्पं गृह्णीयाम यत् मिलित्वा एकं स्वस्थम् समावेशी च सुदृढं समाजं निर्मास्यामः, यत्र प्रत्येकनागरिकः गौरवपूर्णं सम्मानजनकं जीवनं नेतुं शक्नोति।

---------------

हिन्दुस्थान समाचार