Enter your Email Address to subscribe to our newsletters

इंदौरम्, 11 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर नगरे अद्य गुरुवासरात् त्रिदिवसीया षट्षष्टितम राष्ट्रीय शाल्याः क्रीडाप्रतियोगिता द्विसहस्र पंचविंशति आयोज्यते। अस्य राष्ट्रीय शालाक्रीडाप्रतियोगिताया उद्घाटनसमारोहः मध्याह्ने एकवादनात् ए बी मार्ग बायपासप्रदेशे बाल्याखेडा होटेल् शेरेटान् समीपे स्थिते एमराल्ड हाइट्स् वर्ल्ड् विद्यालये भविष्यति।
षड्षष्टितमायाः राष्ट्रिय शालाक्रीडाप्रतियोगितायाः संगठनसचिवा जिलाशिक्षाधिकारी च डॉ शांता स्वामी भार्गव इत्युक्तवन्ती यत् एषा प्रतियोगिता स्कूल् गेम्स् फेडरेशन् ऑफ् इण्डिया इत्यस्य आश्रये आयोज्यते। ए बी मार्ग बायपासप्रदेशे बाल्याखेडा होटेल् शेरेटान् समीपे एमराल्ड हाइट्स् वर्ल्ड् विद्यालये आयोजितायामस्यां प्रतियोगितायां स्क्वैश् अन्डर् उन्नविंशतिवयस्क बालकबालिकानां स्पर्धा भविष्यति।
हिन्दुस्थान समाचार