मुख्यमंत्री डॉ. यादवः कवि प्रदीपाय तत्पुण्यतिथौ पूर्व राष्ट्रपतये प्रणब मुखर्जिने जयंत्यां विदधात् नमनम्
भाेपालम्, 11 दिसंबरमासः (हि.स.)। स्वदेशप्रेमपूर्णैः स्वकीयैः काव्यैः येन प्रतियेके भारतीयहृदये उत्साहः, उत्कण्ठा, करुणा च उद्भाविता, स कविः प्रदीपस्य अद्य गुरुवासरे पुण्यतिथिः अस्ति। तदेव दिने भारतस्य पूर्वराष्ट्रपतिः भारतरत्नसम्पूजितः प्रणब मुखर
मुख्यमंत्री डॉ. यादव ने कवि प्रदीप को पुण्यतिथि  पर किया नमन


मुख्यमंत्री डॉ. यादव ने पूर्व राष्ट्रपति प्रणब मुखर्जी को जयंती पर किया नमन


भाेपालम्, 11 दिसंबरमासः (हि.स.)।

स्वदेशप्रेमपूर्णैः स्वकीयैः काव्यैः येन प्रतियेके भारतीयहृदये उत्साहः, उत्कण्ठा, करुणा च उद्भाविता, स कविः प्रदीपस्य अद्य गुरुवासरे पुण्यतिथिः अस्ति। तदेव दिने भारतस्य पूर्वराष्ट्रपतिः भारतरत्नसम्पूजितः प्रणब मुखर्जी इत्यस्यापि जयंती अस्ति। अस्मिन्नवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव उभयोरपि महान् विभूत्योः स्मरणं कृत्वा विनम्रां श्रद्धाञ्जलिं अर्पितवान्।

मुख्यमन्त्री डॉ यादवः कवये प्रदीपाय तत्पुण्यतिथौ स्मरन् लिखति यत् मध्यप्रदेशस्य गौरवभूतः दादासाहेब फाल्के पुरस्कारेन सम्मानितः कविः प्रदीपः इत्यस्य पुण्यतिथौ अहं सादरं श्रद्धाञ्जलिं समर्पयामि। तस्य कृतयः जनस्य हृदयेषु राष्ट्रगौरवस्य स्वाभिमानस्य च ज्वालां प्रज्वालयन्ति। मातृभारत्याः सेवायै दृढसंकल्पं दत्तवन्त्यः तस्य कृतयः साहित्यविश्वस्य अमूल्या धरोहराः सन्ति।

अन्येन संदेशेन मुख्यमन्त्री डॉ यादवः प्रणब मुखर्जये तज्जयंत्यां नमस्कृत्य उक्तवान् यत् पूर्वराष्ट्रपतिः भारतरत्न प्रणब मुखर्जी इत्यस्य जयंतीदिने अहं सादरं नमनं करॊमि। देशस्य विकासे आर्थिकसुधारेषु च तस्य योगदानं नित्यं स्मरणीयं भविष्यति।

---------------

हिन्दुस्थान समाचार