Enter your Email Address to subscribe to our newsletters

इंदौरम्, 11 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेल आज गुरुवासरे इन्दौरनगरं प्रति एकदिवसीयप्रवासार्थं आगच्छन्ति। ते अत्र आयोजितेषु विविधेषु कार्यक्रमेषु सहभागित्वं करिष्यन्ति।
नियोजितानुसारं कार्यक्रमे राज्यपालः पटेल प्रातः एकादशवादने देवी अहिल्याबाई होलकर विमानस्थानम् इन्दौर आगमिष्यन्ति, ततो एकादशत्रिंशद्वादने ब्रिलियंट कन्वेन्शन केन्द्रं प्राप्स्यन्ति। ते अत्र ग्रैण्ड हॉल इत्यत्र आयोजिते न्यूरोलॉजिकल सोसाइटी ऑफ इण्डिया इत्यस्य त्रिसप्ततितम वार्षिकसम्मेलनम् एन एस आइ कन् द्विसहस्र पंचविंशति नाम्नि कार्यक्रमे भागं गृह्णन्ति।
राज्यपालः पटेल अपराह्णे त्रिवादने उज्जैनमार्गे श्रीवैष्णव अभियान्त्रिकी महाविद्यालयस्य समीपे स्थितां मुरारीलाल तिवारी गोशालां परिदर्शयिष्यन्ति।
सायंकाले चतुर्वादने देवी अहिल्याबाई होलकर विमानस्थानात् इन्दौर नगरात् भोपालपुरीं प्रति प्रस्थानं करिष्यन्ति।
हिन्दुस्थान समाचार