Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 11 दिसंबरमासः, (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः अद्य जनपदं आगच्छन्ति। करञ्जाकला विकासखण्डप्रदेशस्य समसपुर पनियरिया ग्रामे क्रीडायुवा कल्याण विभागस्य राज्य मन्त्री स्वातन्त्र्यप्रभारि गिरीशचन्द्र यादवस्य पितुः सवधू यादव नाम्नः द्विनवत्यधिकवर्षीयस्य निधनं प्रति शोकश्रद्धाञ्जलिं समर्पयितुं तेषां गृहम् आगमिष्यन्ति। मुख्यमन्त्रिणः जनपदे त्रिंशद्विनिमेषपर्यन्तं स्थापनं भविष्यति।
मुख्यमन्त्री प्रातः एकादश विंशतिः मिनिटे राजकीयेन उदग्रविमानेन भकुरा ग्रामे उत्तरपूर्वायां निर्मिते हेलीपैड् प्रदेशे आगमिष्यन्ति। तस्मात् कारयानेन एकादश पंचचत्वारिंशद्वादने समसपुर पनियरिया ग्रामं प्राप्य गिरीशचन्द्र यादवस्य पितुः निधनं प्रति श्रद्धाञ्जलिं दास्यन्ति। ततः एकादश पञ्चाशद्वादने वाराणसी नगरं प्रति प्रस्थानं करिष्यन्ति।
मुख्यमन्त्रिणः आगमनस्य सन्दर्भे हेलीपैड् प्रदेशे पुलिस् तैनाताः। जिलाधिकारी डॉ दिनेशचन्द्र तथा पुलिस् अधीक्षकः डॉ कौस्तुभ इत्येतौ मुख्यमन्त्रिणः आगमनं निमित्तीकृत्य समग्रसज्जानां परीक्षणम् अकुरुताम्।
---------------
हिन्दुस्थान समाचार