Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 11 दिसंबरमासः (हि.स.)।दक्षिणपूर्वरेलवयनिर्देशालयस्य खड़गपुरमण्डले खुर्दारोड् विभागे प्रचलमानानां अधोसंरचना उन्नयनकार्यानां कारणात् आगामिदिनेषु कतिपयानि रेलयानानि निरस्तानि कतिपयानि पुनर्निर्धारितानि च भविष्यन्ति। यात्रिकानां सुविध्यर्थं रेल्वेप्रशासनम् अग्रिमसूचनां प्रकाशितवान्।
खड़गपुर खुर्दारोड् एक्सप्रेस् बहुदिनानि यावत् निरस्ता। सूचनानुसारम् १८०२१ १८०२२ खड़गपुर खुर्दारोड् खड़गपुर एक्सप्रेस् एकादशे द्वादशे पञ्चदशे षोडशे अष्टादशे उन्नविंशे द्वाविंशे त्रयोविंशे पञ्चविंशे षड्विंशे एकोनत्रिंशे त्रिंशत् दिसंबर द्विसहस्र पंचविंशति इत्येषु तिथिषु निरस्ता भविष्यति। एतासु तिथिषु यात्रायोजनां कुर्वन्तः यात्रिकाः विकल्पव्यवस्थां सुनिश्चितुं प्रार्थ्यन्ते।
विकासकार्याणां कारणेन परिचालनस्य प्रभावं दृष्ट्वा रेल्वेप्रशासनम् कतिपयानि प्रमुखयानानि पुनर्निर्धारितुं निर्णयं कृतवान्।
१२७०३ हावड़ा सिकन्द्राबाद् फलकनुमा एक्सप्रेस् एकादशे अष्टादशे द्वाविंशे पञ्चविंशे दिसंबरदिवसेषु एकघण्टात्रिंशन्मिनिट् विलम्बेन प्रेषिता भविष्यति।
१२८४० एम जी एम हावड़ा एक्सप्रेस् एभ्य एव तिथिषु द्विघण्टाविलम्बेन प्रस्थिताः।
२२८९६ पुरी हावड़ा वन्दे भारत एक्सप्रेस् द्वादशे षोडशे उन्नविंशे त्रयोविंशे षड्विंशे त्रिंशत् दिसंबरदिने एकघण्टात्रिंशन्मिनिट् पुनर्निर्धारितसमये सञ्चारिता भविष्यति।
रेल्वेप्रशासनम् यात्रिकान् प्रार्थयति यत् ते स्वस्य प्रस्थानसमयं पूर्वमेव रेल्वे हेल्पलाइन अधिकृत जालपुटम् अथवा ऐप् इत्यस्मात् ज्ञात्वा एव यात्रां कुर्वन्तु, यतः एवं कृत्या यात्रायां काचिदपि असुविधा न भविष्यति।
हिन्दुस्थान समाचार