Enter your Email Address to subscribe to our newsletters

मंडी, 15 दिसंबरमासः (हि.स.)। मण्डी-जनपदस्य करसोग-क्षेत्रे भन्थल-ग्रामे समाजस्य सांस्कृतिक-चेतनां, अस्मितां तथा सामाजिक-समरसतां सुदृढीकर्तुं उद्देश्येन हिन्दू-सम्मेलनं आयोजितम् अभवत्। भन्थल-आयोजन-समित्या अर्धनारीश्वर-मन्दिरे ऐधन-स्थाने आयोजितस्य हिन्दू-सम्मेलनस्य शुभारम्भः भारत-मातुः चित्रस्य समक्षं दीप-प्रज्वलनेन कृतः। अस्य सम्मेलनस्य मुख्य-अतिथिरूपेण सामाजिककार्यकर्ता लेजरामगूरः उपस्थितः आसीत्। तेन सांस्कृतिक-न्यसास्य संरक्षणे तथा परिवार-व्यवस्थायाः सुदृढीकरणे विशेषं बलं दत्तम्। अपि च राष्ट्रिय-स्वयंसेवक-संघस्य शताब्दी-वर्ष-पूर्णतायां सर्वेभ्यः स्वयंसेवकेभ्यः अभिनन्दनं शुभाशंसाश्च प्रदत्ताः।
अस्मिन् अवसरः कार्यक्रमस्य मुख्य-वक्ता महीधरः प्रसादः, राष्ट्रिय-स्वयंसेवक-संघस्य प्रान्त-कार्यकारिणी-सदस्यः, अभिलेखागार-प्रबोधन-प्रमुखश्च, आसीत्। तेन स्वीय-उद्बोधने समाजे सांस्कृतिक-चेतनायाः क्षयः, युवकेषु संस्कार-ह्रासः, तथा मादक-द्रव्याणां (ड्रग्स्) वर्धमानाः दुष्प्रभावाः इत्येतत् विषयकं श्रोतॄन् जागरूकान् कृतवान्। तथैव बालकेषु मोबाइल-दूरभाषस्य अत्यधिक-प्रयोगात् उत्पद्यमानाः दुष्प्रभावाः अपि सूचिताः। तेन संगठनस्य आवश्यकता, राष्ट्रभक्तेः महत्वं तथा सामाजिक-समरसतायाः अपरिहार्यता विषये विस्तरेण प्रकाशः कृतः।
अस्मिन् अवसरः मञ्चात् भजन-कीर्तनानि, सुरेश-चन्द्रेण तथा बालिकया हरगुणेन कृताः सांस्कृतिक-प्रस्तुतयः अपि समर्पिताः, येन समाजे एकता, समानता तथा राष्ट्रभावस्य सन्देशः प्रेषितः। अस्यैव वर्षे ‘हिन्द्-दी-चादर’ इति प्रसिद्धस्य सिखानां नवम-गुरोः तेगबहादुरस्य बलिदानस्य त्रिशत-पञ्चाशत्तम-वर्षः आचर्यते। तथा भगवान् विरसा-मुण्डायाः पञ्चाशदधिक-शततम-जयन्ती, स्वातन्त्र्य-संग्रामस्य प्रेरक-गीतस्य ‘वन्दे-मातरम्’ इत्यस्य शत-पञ्चाशत-वर्ष-पूर्णता, सत्य-साईं-बाबायाः जन्म-शताब्दी, तथा राष्ट्रिय-स्वयंसेवक-संघस्य शत-वर्ष-पूर्णता—एतेषां सर्वेषां ऐतिहासिक-अवसराणां संयुक्त-स्मरणस्य प्रतीकरूपेण एतत् सम्मेलनम् अभवत्।
वक्तृभिः उक्तं यत् एतादृशाः आयोजनाः समाजस्य एकत्रीकरणे, सांस्कृतिक-मूल्यानां सशक्तीकरणे तथा राष्ट्रं प्रति कर्तव्य-बोधस्य जागरणे महत्त्वपूर्णां भूमिकां वहन्ति। अस्य सम्मेलनस्य उद्देश्यं व्यक्तिगत-लाभात् परं गत्वा समाज-हितं राष्ट्र-हितं च केन्द्रे स्थापयितुम् इति प्रतिपादितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता