नीतीश–मन्त्रिपरिषद्–सभायां ‘सप्त–निश्चय–योजना ३.०’ इत्यस्य अनुमोदनम्; बिहारराज्यं विकसितराज्यानां श्रेण्यां स्थापयितुं लक्ष्यं निर्धारितम्।
पटना, 16 दिसंबरमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री श्रीनीतीशकुमारस्य अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिपरिषद्–सभायां ‘सप्त–निश्चय–योजना ३.०’ इत्यस्य अनुमोदनं प्रदत्तम्। अस्य विषये मुख्यमन्त्रीणाः सामाजिकमाध्यम–मञ्चे ‘एक्स्’ इत्यस्मिन्
धान अधिप्राप्ति की समीक्षा बैठक करते मुख्यमंत्री नीतीश


पटना, 16 दिसंबरमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री श्रीनीतीशकुमारस्य अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिपरिषद्–सभायां ‘सप्त–निश्चय–योजना ३.०’ इत्यस्य अनुमोदनं प्रदत्तम्। अस्य विषये मुख्यमन्त्रीणाः सामाजिकमाध्यम–मञ्चे ‘एक्स्’ इत्यस्मिन् सूचना साझा कृता।

मुख्यमन्त्री श्रीनीतीशकुमारः अवदत् यत् २४ नवम्बर् २००५ तः राज्ये विधिशासनस्य स्थापना अभवत्। सुशासनकार्यक्रमानाम् अन्तर्गतं ‘सप्त–निश्चय’ (२०१५–२०२०) तथा ‘सप्त–निश्चय–२’ (२०२०–२०२५) इत्येतयोः योजनयोः निर्धारितलक्ष्याणि सफलतया सिद्धानि सन्ति। अधुना बिहारराज्यं देशस्य सर्वाधिकविकसितराज्यानां श्रेण्यां समावेशयितुं ‘सप्त–निश्चय–३’ इत्यस्य कार्यान्वयनाय निर्णयः कृतः।

‘द्विगुणं रोजगारः–द्विगुणा आयः’

‘सप्त–निश्चय–३’ इत्यस्य प्रथमं निश्चयं ‘द्विगुणं रोजगारः–द्विगुणा आयः’ इति अस्ति। अस्य उद्देश्यं राज्यस्य प्रति–व्यक्तेः औसत–आयां द्विगुणीकरणं कर्तुम्। अस्य अन्तर्गतं ‘मुख्यमन्त्री महिला रोजगार योजना’ इत्यस्य माध्यमेन महिलाभ्यः स्वरोजगाराय दशसहस्ररूप्यकाणि प्रदास्यन्ते तथा रोजगारविस्ताराय द्विलक्ष–रूप्यकपर्यन्तं साहाय्यं दास्यते। आगामि पञ्चवर्षेषु एक–कोटि–युवानां कृते उद्योग–रोजगार–अवसराणां सृजनं लक्ष्यीकृतम्। बिहारराज्यस्य उत्पादानां विक्रयाय हाट–बाजाराणां विकासोऽपि क्रियते।

‘समृद्धः उद्योगः–सशक्तं बिहारः’

द्वितीयं निश्चयं ‘समृद्धः उद्योगः–सशक्तं बिहारः’ इति अस्ति। औद्योगिकविकासाय मुख्यसचिवस्य अध्यक्षतायां त्रयाणाम् उच्चस्तरीयसमितीनां गठनं कृतम्। आगामि पञ्चवर्षेषु राज्ये न्यूनतमं पञ्चाशत्–लक्ष–कोटि–रूप्यकाणां (५० लक्ष्यकोटि) निजी–निवेशस्य लक्ष्यं निर्धारितम्। स्थगितानां नव चीनी–मिलानां चरणबद्धरूपेण पुनः सञ्चालनं तथा पञ्चविंशति–नवीन–चीनी–मिलानां स्थापनायाः निर्णयः अपि कृतः।

‘कृषौ प्रगतिः–प्रदेशस्य समृद्धिः’

तृतीयं निश्चयं ‘कृषौ प्रगतिः–प्रदेशस्य समृद्धिः’ इति। कृषकाणां आयवृद्ध्यर्थं २०२४ तः २०२९ पर्यन्तं चतुर्थ–कृषि–रोड–मैप् इत्यस्य कार्येषु तीव्रता आणीयते। मखाना–रोड–मैप् निर्माय मखानायाः उत्पादनं प्रसंस्करणं च प्रोत्साहितं करिष्यते। दुग्ध–उद्योगे मत्स्यपालने च विशेषो बलः दास्यते तथा प्रत्येकस्मिन् पञ्चायते ‘सुधा’ विक्रय–केन्द्राणि स्थापयिष्यन्ते।

‘उन्नता शिक्षा–उज्ज्वलं भविष्यत्’

चतुर्थं निश्चयम् ‘उन्नता शिक्षा–उज्ज्वलं भविष्यत्’ इति। अस्य अन्तर्गतं राज्ये पृथक् उच्च–शिक्षा–विभागः गठितः। प्राचीनाः प्रतिष्ठिताः शिक्षणसंस्थाः उत्कृष्टताकेन्द्राणि रूपेण विकसिताः करिष्यन्ते तथा नवीन–एजुकेशन–सिटी–निर्माणम् अपि क्रियते।

‘सुलभं स्वास्थ्यं–सुरक्षितं जीवनम्’

पञ्चमं निश्चयं ‘सुलभं स्वास्थ्यं–सुरक्षितं जीवनम्’ इति। प्रखण्ड–समुदायिक–स्वास्थ्य–केन्द्राणि विशिष्ट–चिकित्सा–केन्द्राणि रूपेण, तथा जिला–चिकित्सालयाः अति–विशिष्ट–चिकित्सा–केन्द्राणि रूपेण विकसिताः करिष्यन्ते। नवीन–मेडिकल्–कॉलेज्–चिकित्सालयेषु लोकनिजी–सहभागितां प्रोत्साहनं दास्यते। ग्रामीण–क्षेत्रेषु उत्तम–चिकित्सा–सुविधार्थं चिकित्सकेभ्यः विशेष–प्रोत्साहनम् अपि प्रदास्यते।

‘दृढः आधारः–आधुनिकः विस्तारः’

षष्ठं निश्चयं ‘दृढः आधारः–आधुनिकः विस्तारः’ इति। अस्य अन्तर्गतं नगरीय–क्षेत्राणां विस्तारः, नागरिक–सुविधानां सुदृढीकरणं तथा नवीननियोजितनगराणां विकासः क्रियते। पञ्चनवीनएक्सप्रेस्–मार्गाणां निर्माणम्, ग्रामीण–मार्गाणां द्वि–लेन–विस्तारः, सौर–ऊर्जायाः प्रोत्साहनं, पर्यटन–स्थलानां विकासः च क्रियते। तदतिरिक्तं फिल्मसिटीनिर्माणेन चलचित्र–उद्योगः अपि प्रोत्साहितः करिष्यते। ‘सर्वेषां सम्मानः–जीवनं सुकरम्’ सप्तमं तथा अन्तिमं निश्चयं ‘सर्वेषां सम्मानः–जीवनं सुकरम्’ इति। अस्य अन्तर्गतं आधुनिक–प्रौद्योगिकी, नवाचारः तथा संवेदनशील–सुशासनस्य माध्यमेन नागरिकानां जीवनं सुकरं कर्तुं विशेषः बलः दास्यते।

मुख्यमन्त्रीणाः विश्वासः व्यक्तीकृतः यत् ‘सप्तनिश्चय–३’ इत्यस्य प्रभावीक्रियान्वयनेन विकसितबिहारस्य संकल्पः सिद्धः भविष्यति तथा बिहारराज्यं देशस्य सर्वाधिकविकसित–राज्यानां श्रेण्यां अवश्यं समावेशं प्राप्स्यति।--------------

हिन्दुस्थान समाचार / Dheeraj Maithani