Enter your Email Address to subscribe to our newsletters

समस्तीपुरम् 16 दिसंबरमासः (हि.स.)। बिहारराज्यस्य समस्तीपुरनगरे आगामी १२ जनवरीतः १४ जनवरीपर्यन्तं आयोजितव्यस्य विद्यापति-राजकीय-महोत्सवस्य सफलं सुव्यवस्थितं च आयोजनं सुनिश्चितीकर्तुं समस्तीपुरे समाहरणालय-सभागारे अपरसमाहर्ता ब्रजेशकुमारस्य अध्यक्षतायां एका महत्वपूर्णा समन्वयसभा आयोजिता अभवत्।
अस्यां सभायाम् अपरसमाहर्ता (आपदाप्रबन्धन), दलसिंहसराय-अनुमण्डलाधिकारी, कला-संस्कृति-पदाधिकारी, स्थापना-उपसमाहर्ता सहितं सम्बन्धितविभागानां पदाधिकारिणः तथा मन्दिरसमितेः प्रतिनिधयः उपस्थिताः आसन्। बैठकायां महोत्सवस्य आयोजनतिथिः, आयोजनस्थलम्, सांस्कृतिककार्यक्रमाणां रूपरेखा, विधि-व्यवस्था, यातायातव्यवस्था, स्वच्छता, पेयजलव्यवस्था, विद्युत्सुविधा, चिकित्सासुविधा तथा सुरक्षा-व्यवस्था इत्यादिषु महत्वपूर्णेषु विषयेषु विस्तृतचर्चा कृता।
अधिकारिभिः आपसी-समन्वयेन सर्वाः आवश्यकतैयार्यः समयेन पूर्णीकर्तुं निर्देशाः दत्ताः। कला-संस्कृति-पदाधिकारिणां द्वारा प्रस्तावितसांस्कृतिककार्यक्रमाणां विषये सूचना प्रदत्ता, तथैव मन्दिरसमितेः प्रतिनिधिभिः आयोजनसम्बद्धाः परामर्शाः प्रस्तुताः कृताः। प्रशासनपक्षेण महोत्सवस्य भव्यं, सुरक्षितं तथा सुव्यवस्थितं आयोजनं सुनिश्चितं कर्तुं आश्वासनं दत्तम्। सभायां उपस्थिताः सर्वे पदाधिकारीणः महोत्सवस्य सफलायोजनाय स्व-स्वस्तरात् पूर्णसहयोगं दातुं प्रतिबद्धतां व्यक्तवन्तः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani