तेजस्वी यादवम् आधृत्य भाजपायाः प्रणोदः, विशिष्टमाध्यमेषु ‘लापता’ इति फलकम्
पटना, 17 दिसंबरमासः (हि.स.)। बिहार-विधानसभा-निर्वाचनस्य २०२५ तमे वर्षे परिणामानां प्रकाशनानन्तरं नूतन-सरकारस्य गठनोपरान्तं विपक्षनेतृत्त्वं वहन्तः राष्ट्रियजनतादलस्य (राजद) प्रमुखः तेजस्वीयादवः राज्यात् बहिः निरन्तरं वर्तमानः इति विषये राजनैतिक-सरग
बिहार भाजपा द्वारा जारी सोशल मीडिया पोस्ट


पटना, 17 दिसंबरमासः (हि.स.)। बिहार-विधानसभा-निर्वाचनस्य २०२५ तमे वर्षे परिणामानां प्रकाशनानन्तरं नूतन-सरकारस्य गठनोपरान्तं विपक्षनेतृत्त्वं वहन्तः राष्ट्रियजनतादलस्य (राजद) प्रमुखः तेजस्वीयादवः राज्यात् बहिः निरन्तरं वर्तमानः इति विषये राजनैतिक-सरगर्मी तीव्रतरा अभवत्। अस्मिन्नेव काले बिहार-भारतीयजनतापक्षेण (भाजपा) सामाजिकमाध्यमेषु एकः पोस्टरः प्रकाशितः यत्र तेजस्वीयादवस्य विषये व्यङ्ग्यं कृतम्।

बिहार-भाजपाया आधिकारिक-सामाजिकमाध्यम-पृष्ठे प्रकाशिते अस्मिन् पोस्टरे तेजस्वीयादवः ‘लुप्तः’ इति निर्दिष्टः। तस्य चित्रस्य सह “परिचयः नवमी-अनुत्तीर्णः” इति लिखितम् अस्ति। तेन सह एषः प्रश्नोऽपि उत्थापितः यत् सः अन्तिमवारं कदा दृष्टः इति, यस्य उत्तररूपेण “माध्यमेभ्यः मुखं गोपयित्वा पलायमानः” इति लिखितम्। अयं पोस्टरः सामाजिकमाध्यमेषु शीघ्रं व्यापकं प्रसारितः जातः तथा राजनैतिकवृत्तेषु अस्मिन् विषये मिश्रिताः प्रतिक्रियाः दृश्यन्ते।

उल्लेखनीयम् अस्ति यत् बिहार-विधानसभा-निर्वाचने राष्ट्रियजनतादलः केवलं पञ्चविंशति-आसनानि प्राप्तवान्, येन दलस्य विपक्षीय-भूमिका अवश्यंभाविनी जाता। निर्वाचन-परिणामानन्तरं तेजस्वीयादवः विधानसभा-शीतकालीन-सत्रस्य प्रथमदिने विधायक-पदस्य शपथां गृहीतवान्, किन्तु तदनन्तरं सत्रस्य अवशिष्ट-दिवसेषु सः उपस्थितः न आसीत्।

तेजस्वीयादवस्य निरन्तर-अनुपस्थितेः कारणात् राजनैतिक-परिसरेषु एते प्रश्नाः उद्भवन्ति यत् किं विपक्षीय-नेतृत्वं स्वीयानि कर्तव्याणि गम्भीरतया निर्वहति वा न। राजनैतिक-विश्लेषकाः मन्यन्ते यत् भाजपाया एतादृशी सामाजिकमाध्यम-रणनीतिः सत्तारूढ-दलाय राजनैतिक-लाभं दातुं शक्नोति तथा विपक्षस्य निष्क्रियतां जनसमक्षं प्रकाशयितुं प्रयत्नः क्रियते।

भाजपाया प्रकाशितः इदं फलकं यत्र एकतः राजनैतिक-सन्देशं वहति तत्र अन्यतः हास्यरूपेण अपि दृश्यते। अयं विषयः सम्प्रति बिहार-राजनीतौ चर्चाविषयः अभवत् तथा आगामि-दिवसेषु अस्य प्रभावः विधानसभा-अन्तः बहिश्च विपक्षस्य भूमिकायां द्रष्तुं शक्यते।-------------

हिन्दुस्थान समाचार