विधानसभायाम् अद्य महात्मा–गान्धी–राष्ट्रीय–ग्रामीण–रोजगार–गारण्टी–योजना, पञ्चायत् तथा शिक्षा विषयेषु चर्चा भविष्यति।
रायपुरम्, 17 दिसंबरमासः (हि.स.)। छत्तीसगढ़-विधानसभायाः शीतकालीन-सत्रस्य अद्य चतुर्थः दिवसः अस्ति। अद्य प्रश्नकालस्य, ध्यानाकर्षणस्य तथा शून्यकालस्य अवसरं मनरेगा, पञ्चायत्, विद्यालय-शिक्षा, उद्योग तथा पर्यावरणसम्बद्धेषु महत्त्वपूर्णेषु विषयेषु चर्चा
छत्तीसगढ़ विधानसभा


रायपुरम्, 17 दिसंबरमासः (हि.स.)। छत्तीसगढ़-विधानसभायाः शीतकालीन-सत्रस्य अद्य चतुर्थः दिवसः अस्ति। अद्य प्रश्नकालस्य, ध्यानाकर्षणस्य तथा शून्यकालस्य अवसरं मनरेगा, पञ्चायत्, विद्यालय-शिक्षा, उद्योग तथा पर्यावरणसम्बद्धेषु महत्त्वपूर्णेषु विषयेषु चर्चा सम्भाव्यते।

अद्य प्रश्नकाले उपमुख्यमन्त्री विजय शर्मा तथा वनमन्त्री केदार कश्यप प्रश्नानां उत्तराणि दातुं दृश्येरन् इति अपेक्षा अस्ति। तथैव विद्यालय-शिक्षामन्त्री गजेन्द्र यादव तथा वित्तमन्त्री ओ.पी. चौधरी स्वस्व-विभागसम्बद्धानां प्रश्नानां उत्तराणि दास्यन्ति। वित्तमन्त्री ओ.पी. चौधरी तथा श्रममन्त्री लखनलालदेवाङ्गनाभ्यां पत्राणां पटलसमर्पणस्य अपि सम्भावना वर्तते।

उल्लेखनीयम् अस्ति यत् शीतकालीन-सत्रस्य तृतीयदिने वित्तमन्त्री ओ.पी. चौधरी त्रिंशत्-पञ्चसहस्र-कोटि-रूप्यकाणाम् अनुपूरक-वित्तीय-प्रस्तावं प्रस्तुतवान्। अस्मिन् विषये पक्ष-विपक्षयोः मध्ये तीव्रा बहस अभवत्। वित्तमन्त्रीणाऽयं प्रस्तावः प्रदेशस्य विकासं शीघ्रं करिष्यति इति प्रतिपादितम्, अपरं च अजय चन्द्राकरः एतत् छत्तीसगढ़-इतिहासस्य सर्वाधिकं महत् अनुपूरक-वित्तीय-प्रस्तावः इति अवदत्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani