Enter your Email Address to subscribe to our newsletters

मंडी, 17 दिसंबरमासः (हि.स.)।
उपायुक्तः अपूर्वदेवगणः डीआरडीए इत्यस्य सम्मेलनकक्षे आयोजितायाः राजस्वअधिकारिणां गोष्ठ्याः अध्यक्षतां कुर्वन् जनपदे लम्बितानां राजस्वविषयकप्रकरणानां शीघ्रं निष्पक्षं च निपटारं कर्तुं विशेषतया बलं दत्तवान्। सः अवदत् यत् षण्मासाधिककालात् लम्बितानां निशानदेही तथा तकसीमसम्बद्धानां प्रकरणानां निपटारः सर्वोच्चप्राथमिकतया क्रियताम्, तथा द्विमासाधिककालात् लम्बितानां सर्वेषां इंतकालप्रकरणानां निपटारः जनवरीमासपर्यन्तं अनिवार्यतया सुनिश्चितः क्रियताम्। उपायुक्तः न्यायपूर्णनिपटारे (फेयर् डिस्पोजल्) विशेषं ध्यानं दत्त्वा सुदृढां रणनीतिं निर्माय कार्यकरणाय निर्देशान् दत्तवान्।
बैठके एकस्मात् सेप्टेम्बरमासात् त्रिंशत्तमे नवम्बरमासपर्यन्तं कालावधिसम्बद्धं पूर्वदत्तांशं तथा वर्तमानस्थितिम् आधारं कृत्वा राजस्वन्यायालयप्रकरणानाम्, म्यूटेशनप्रकरणानाम्, दुरुस्तजमाबन्दी, राहतप्रकरणानाम्, पटवारखानानां स्थितेः, स्वामित्वयोजनायाः, मुद्राङ्कनपञ्जीकरणविषयाणाम्, माय् डीड्, देवीदेवताविषयकप्रकरणानाम् तथा भूमिहीनानां भूमिआवंटनसम्बद्धानां प्रकरणानां विस्तृता समीक्षा कृता। तदनन्तरं सीएम सेवा संकल्पः, ईसमाधानपोर्टल् तथा जिलालोकशिकायतनिवारणप्रकोष्ठे लम्बितानां शिकायतानां स्थितेः अपि समीक्षा कृता, तथा सम्बन्धितान् अधिकारिणः समयबद्धनिपटाराय निर्देशाः दत्ताः।
उपायुक्तः अवदत् यत् आपदाकाले जनपदे सर्वैः राजस्वअधिकारीभिः प्रशंसनीयं कार्यं कृतम् अस्ति, अतः अधुना तेनैव प्रतिबद्धभावेन नियमितेषु राजस्वकार्येषु अपि वेगः आनयितव्यः। सः बल्ह उपमण्डले अपेक्षाकृतन्यूनप्रगतिम् उल्लिख्य अवदत् यत् सः शीघ्रमेव तस्य उपमण्डलस्य भ्रमणं करिष्यति, येन कार्यप्रगतेः स्थलपर्यवेक्षणं कर्तुं शक्येत।
उपायुक्तः सर्वान् राजस्वअधिकारीन् निर्देशितवान् यत् त्रिंशत्तमे तथा एकत्रिंशत्तमे दिसम्बरमासे आयोजितासु राजस्वन्यायालयेषु भूमिकोषाणाम् आधार तथा चलदूरभाषासीडिङ्ग् (मोबाइल् सीडिङ्ग्) कृते विशेषाभियानं सञ्चालयन्तु। सः अवदत् यत् जनपदे विद्यमानानां ९,८१,४४५ भूमिकोषाणां मध्ये अधुनापर्यन्तं केवलं ३,५४,६९९ भूमिखातानाम् एव आधारसीडिङ्ग् सम्पन्ना अस्ति, यत् प्राथमिकतया शीघ्रं पूर्णं कर्तव्यम् अस्ति।
---------------
हिन्दुस्थान समाचार